SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ आचा 12 श६१ प्रदी. चित्तो-गायमुपगतः पलाशैः-पत्रैः प्रच्छन्नः पलाशप्रच्छन्नः, 'उम्मुग्गति विवरं उन्मज्यतेऽनेनेति वोन्मज्जम् ,' ऊर्य वा मार्गमुन्मार्ग सर्वथा रन्ध्र, तदसौ न लभत इत्यक्षरार्थः।। भावार्थस्त्वयम्- यथा कश्चित् हुदो योजनशतसहस्रविस्तीर्ण पलाशप्रबलशैवलाच्छादित: नानारूपकरिमकरमच्छकच्छपादिजलचराश्रयः, तन्मध्ये चै विस्र सापरिणामापादितं कच्छपग्रीवाप्रमाणे विवरमभूत्तत्र चकेन कूर्मेण निजयुथात प्रभ्रष्टेन बियोगाकुलतयेतश्वेतश्च ग्रीवां प्रक्षिपता कुतश्चित्तथाविधभवितव्यतानियोगेन तद्रन्धं ग्रीवानिर्गमनमाप्त, तत्र चासौ शरच्चन्द्रचन्द्रिकया क्षीरोदसलिलप्रवाहकल्पयोपशोभित विकचकुमुदनिकर कृतोपचारमिव तारकाकीण नभस्तलमीक्षाश्चक्रे, दृष्ट्वा चातीव मुमुदे, आसीचास्य मनसि-यदि तानि मद्वया॑ण्येतत्स्वर्गदेश्यमदृष्टपूर्व पश्यन्ति ततः शोभनमापद्यत इत्येतदवधार्य तूणमन्वेषणाय बन्धूनामितश्चेतश्च बभ्राम, अवाप्य च निजान् पुनरपि तद्विवरान्वेषणार्थं सर्वतः पर्यटन्ति, न च तद्विवरं विस्तीर्णतया हृदस्य प्रचुरतया यादसामीक्षते, तत्रैव च विनाशमुपयात इति । ___ अस्यायमर्थोपनयः--संसारहू दे जीवकूर्मः कर्मशैवलविवरतो मनुष्यार्यक्षेत्रसुकुलोत्पत्तिसम्यक्त्वावसाननभस्तलमासाद्य मोहोदयात् ज्ञात्यर्थ विषयोपभोगाय वा सदनुष्ठानविकलो न सफलतां नयति, तत्त्यागे कुतः पुनः संसारहदान्तवर्तिनस्तस्वाप्तिः ?, तस्मादवाप्य भवशत दुरापं सम्यक्त्वं क्षणमप्येकं न प्रमादवता भाव्यमिति तात्पर्यार्थ । पुनरपि दृष्टान्तान्तरमाह--'भंजगा इव'त्ति भञ्जगा-वृक्षास्त इव शीतोष्णप्रकम्पनच्छेदनशाखाकर्षणामोटनभञ्जनरूपान१. बोन्मज्जनम्-पा० । RRRRIES ॥३३॥ R
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy