________________
प्राचा
११६१
दी.
दिया -ज्ञान-मत्यादि पञ्चधा, किम्भूतम् ? अनीदृशं-नान्यत्रेदृशमस्तीत्यनीदृशम् ।
__केषां पुनः स धर्ममाचष्ट इत्याह-स तीर्थकुद्गणधरादिः कीर्तयति-यथावस्थितान् [भावान् प्रतिपादयति] तेषांधर्मचरणाय सम्यगुत्थितानां, यदिवा उत्थिता द्रव्यतो भावतश्च, द्रव्यतः शरीरेण भावतो ज्ञानादिभिः, तत्र स्त्रियः समवसरण. स्था उभयथाऽप्युत्थिताः अण्वन्ति, पुरुषास्तु द्रव्यतो भाज्याः, भावोत्थितानां तु धर्ममावेदयति उत्तिष्ठासूनां च देवानां तिरश्चां च, येऽपि च कौतुकादिना अण्वन्ति तेभ्योऽप्याचष्टे, किम्भूतानां भावोत्थितानां 'निक्खित्तदंडाण' निक्षिप्ताःसंयमिताः मनोवाकायरूपाः प्राण्युपमर्दकारित्वाद्दण्डा इव दण्डा यैस्तेषां, 'समाहिताणं'-सम्यगाहिताः तपःसंयमे सावधाना | | अनन्यमनस्कास्तेषां, 'पण्णाणमंताणं'ति प्रकर्षण ज्ञायतेऽनेनेति प्रज्ञानं तद्वतां सश्रुतिकानाम् इह-अस्मिन् मनुष्यलोके मुक्तिमार्ग-ज्ञानाद्यात्मकं कीर्तयति ।
'एवं पेगे'त्ति एवं तीर्थकृताऽऽवेदिते सत्येके महावीरा-लब्धकर्मविवराः विविधं संयमसामशिरसि पराक्रमन्ते ।
एतद्विपर्ययमाह-'पासह'त्ति साक्षात्तीर्थकरे सकलसंशयच्छेतरि धर्ममावेदयति सत्येकान् प्रबलमोहावृत्तान् संयमेऽवसीदतः पश्यत यूयं, किम्भूतानित्याह--नात्मने हिता प्रज्ञा येषां तेऽनात्मप्रज्ञास्तान् ।
कुतः पुनः संयमेऽवसीदन्तीत्यारेकायां सोऽहं ब्रवीमि-अत्र द्रष्टान्तद्वारेण सोपपत्तिकं कारणमाह--'से जहा वि' सेशब्दस्तच्छब्दार्थे, अपिशब्दश्चार्थे, स च वाक्योपन्यासे, तद्यथा च कूर्मों महाहृदे विनिविष्टं चित्तं यस्यासौ विनिविष्ट
AAAAAABAR
॥३३०॥