SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ आचा. १५६ प्रदी० SeeSeSSeSSeSeecleece किमिति तत्र तर्काभाव इति चेदाह--'मती तत्थे ति मननं मतिः मनसो व्यापारः पदार्थचिन्ता सौत्पत्तिक्यादिका चतुर्विधाऽपि मतिस्तत्र न ग्राहिका, मोक्षावस्थायाः सकलविकल्पातीतत्वात् । न तत्र कर्मसहितस्य गमनं, यतः 'ओए' ओजः-एकोऽशेषमलकलङकाङ्करहितः, किञ्च-'अप्पतिढाणस्स' न विद्यते प्रतिष्ठानमौदारिकशरीरादेः कर्मणो वा यत्र सोऽप्रतिष्ठानो-मोक्षस्तस्य खेदज्ञो-निपुणो, यदिवा अप्रतिष्ठानोनरकस्तत्र स्थित्यादिपरिज्ञानतया खेदज्ञो लोकनाडिपर्यन्तपरिज्ञाता तेन च समस्तलोकालोकखेदज्ञता आवेदिता भवति । सर्वस्वरनिवर्त्तनं च येनाभिप्रायेणोक्तवांस्तमभिप्रायमाविष्कुर्वनाह-'से ण दीहे' स-परमपदाध्यासी लोकान्तकोशषड्भागक्षेत्रावस्थानोऽनन्तज्ञानदर्शनोपयुक्तः संस्थानमाश्रित्य न दीर्षों न इस्वो न वृत्तो न व्यस्रो न चतुरस्रो न परिमण्डलो, वर्णमाश्रित्य न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो, गन्धमाश्रित्य न सुरभिगन्धो न दुरभिगन्धो, रसमाश्रित्य न न तिक्तो न कटुको न कषायो नाम्लो न मधुरः, स्पर्शमाश्रित्य न कर्कशो न मृदुर्न गुरुन लघुः न शीतो नोष्णो न स्निग्धो | | न रुक्षो, 'न काउ' न कायवान् , तथा न रुहः कर्मबीजाभावादपुनर्भावीत्यर्थः, न विद्यते सङ्गोऽमृर्तत्वाद्यस्य स तथा, तथा न स्त्री न पुरुषो नान्यथेति-न नपुंसकः । 'परिणे' सर्वैरात्मप्रदेशैः परिः-समन्ताद्विशेषतो जानातीति परिज्ञः, तथा सामान्यतः सम्यग्जानाति-पश्यतीति संज्ञा-ज्ञानदर्शनयुक्तः। CASSISTANI ॥३२४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy