________________
आचा०
प्रदी
परिणे, सण्णे ।
उवमाण विज्जति । अरूवी सत्ता ।
अपदस्त पदं णत्थि (सू. १७१)
'अच्चेति' अत्येति - अतिक्रामति जातिश्च मरणं च तस्य 'वदुमगं'ति पन्थानं मार्ग उपादानं कर्म, तदत्येति - अशेषकर्मक्षयं कुरुते, तत्क्षयाच्च किंगुणः स्यादित्याह -- 'वक्खातर ते ' विविधम् - अनेक प्रकार प्रधानपुरुषार्थतयाऽऽख्यातो व्याख्यातो मोक्षोऽशेषकर्मक्षयलक्षणः, तत्र रतः, आत्यन्तिकै कान्तिकानाबाधसुखक्षायिकज्ञानदर्शन संपदुपेतोऽनन्तमपि कालं संतिष्ठते । शब्दैरभिधीयेत इत्येतत्प्रतिपादयितुमाहकिम्भूत इति चेत्, न तत्र शब्दानां प्रवृत्तिः, न च सा काचिदवस्थाsस्ति या 'सव्वे सरा' सर्वे निरवशेषाः स्वरा-ध्वनयस्तस्मान्निवर्त्तन्ते तद्वाच्यवाचकसम्ब वेन न प्रवर्त्तन्ते, शब्दाः प्रवर्त्तमाना रूपरसगन्धस्पर्शानामन्यतमे विशेषे सङ्केतकालगृहीते तत्तुल्ये वा प्रवर्तेरन्, न चैवत्र शब्दादीनां प्रवृत्तिनिमित्तमस्ति, अतः शब्दानभिधेया मोक्षावस्था ।
न केवलं शब्दानभिधेया, उत्प्रेक्षणीयाऽपि न संभवतीत्याह -- 'तका जति सम्भवत्पदार्थ विशेषास्तित्वाध्यवसाय ऊहस्तर्क:- एवमेव चैतत्स्यात्, स च यत्र न विद्यते ततः शब्दानां कुतः प्रवृत्तिः
स्यात् ?
१२५/६
॥३२३॥