________________
१।५।६
SABAISINSISIOECICICLE
_ 'उवमा' उपमीयते-सादृश्यात्परिच्छिद्यते ययासावुपमा'-तुल्यता सा मुक्तात्मनस्तज्ज्ञानमुखयोर्वा न विद्यते, लोकातिगत्वादेषाम् ।
कुत एतदिति चेदाह–'अरूबी' तेषां मुक्तात्मनां या सत्ता [सा] अरूपिणी, अरूपित्वं च दीर्घादिप्रतिषेधेन प्रतिपादितमेव ।
किञ्च–'अपयस्स' न विद्यते पदमवस्थाविशेषो यस्य सोऽपदः, तस्य पदम-अभिधानं तच्च नास्ति वाच्यविशेषाभावात् ॥१७॥ तथाहि-योऽभिधीयते स शब्दरूपरसगन्धस्पर्शान्यतरविशेषेणाभिधीयते, तस्य च तदभाव इत्येतदर्शयितुमाहसे ण सद्दे, ण रूवे, ण गंधे, ण रसे, ण फासे, इच्चेतावंति त्ति बेमि (सू. १७२)
॥पंचमं अज्झयणं आवंती समत्ता॥ 'सेण सद्दे स-मुक्तात्मा न शब्दरूपः न रूपात्मा न गन्धः न रसः न स्पर्श इत्येतावन्त एव वस्तनो भेदाः तत्प्रतिषेधाच्च नापरः कश्चिद्विशेषः सम्भाव्यते येनासौ व्यपदिश्यतेति भावार्थः। इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । गतः सूत्रानुगमः, तद्गतौ समाप्त उद्देशकः, तत्समाप्तौ च समाप्त पञ्चमाध्ययनम् ॥१७२॥
१ सोपमा-ब० । २. विशेषाभावः-पा० । ३ ०त्मा न गन्धरसस्पर्शाः-पा० ।
RECE-करवाऊस
मा०२८
M॥३२५॥