SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ११५६ आचा० प्रदी० जल-संयमानुष्ठाने विहरेत । भाक्षस्तेनार्थी, वीरः- सर्वकालं पराक्रमेथाः AAAAAAAAAAAE किश्च-'इहआरामं परिणाय' इह-अस्मिन् मनुष्यलोके आरमणमारामो रतिरित्यर्थः, स चारामः परमार्थचिन्तायामात्यन्तिकैकान्तिकरतिरूपः संयमस्तमासेवनपरिज्ञया परिज्ञाय आलीनो गुप्तश्च परिव्रजेत्-संयमानुष्ठाने विहरेत् ।। किंभूत इत्याह-निहियटी'ति निष्ठितो मोक्षस्तेनार्थी, वीरः-कर्मविदारणसहिष्णुः सन् आगमेन-सर्वज्ञप्रणीताचारादिना सदा सर्वकालं पराक्रमेथाः-कर्मरिपून [प्रति] मोक्षाध्वनि वा गच्छेः । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥१६९।। किमर्थ पौनःपुन्येनोपदेशदानमित्याह उड्ढं सोता अहे सोता तिरियं सोता वियाहिता । एते सोया वियक्खाता जेहिं संगं ति पासहा ॥ १२ ॥ ___ श्लोकः। श्रोतांसि-कर्माश्रवद्वाराणि तानि च प्रतिभवाभ्यासाद्विषयानुबन्धीनि' गृहयन्ते, तत्र ऊर्ध्व श्रोतांसि वैमानिकाङ्गनाऽभिलाषेच्छा वैमानिकसुखनिदानं वा, अधो-भवनपतिमुखाभिलाषिता, तिर्यग्-व्यन्तरमनुष्यतिर्यग्विषयेच्छा, यदिवा प्रज्ञापका पेक्षयोवं गिरिशिखरप्राग्भारनितम्बप्रपातोदकादीनि, अधोऽपि श्वभ्रनदीकूलगुहालयनादीनि, तिर्यगप्यारामसभाऽऽवसथादीनि प्राणिनां, विषयोपभोगस्थानानि विविधमाहितानि-प्रयोगविस्रसाभ्यां स्वकर्मपरिणत्या वा जनितानि व्याहितानि, एतानि च कर्माश्रवद्वाराणीतिकृत्वा श्रोतांसीव श्रोतांसि, एभिश्च त्रिभिः प्रकारैरप्यन्यैश्च पापोपा१०नुबन्धादीनि-बृ० । २ तत अ० वृ० । ॥३२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy