SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० १।५।६ PRECAAAAAAAA ॥ श्रीलोकसाराध्ययने षष्ठोद्देशकः ॥ उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके हृदोपमेनाचार्येण भाव्यमित्येतदुक्तं, तथाभूताचार्यसम्पर्काच्च कुमार्गपरित्यागो भवतीत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् अणाणाए एगे सोवट्ठाणा, आणाए एगे णिरुवट्ठाणा । एतं ते मा होतु । एतं कुसलस्स देसणं । तद्दिट्ठीए तम्मुत्तीए तप्पुरस्कारे तस्सण्णी तण्णिवेसणे (सू. १६७) 'अणाणाए'त्ति अनाज्ञा-तीर्थ रानुपदेशः स्वमनीषिकाचरितोऽनाचारस्तयाऽनाज्ञया एके-इन्द्रियवशगा दुर्गतिं जिगमिषवः स्वाभिमानग्रहग्रस्ताः सह उपस्थानेन-धर्मचरणाभासेन वर्त्तन्त इति सोपस्थानाः, किल वयमपि प्रबजिताः सदसद्धर्मविशेषविवेकविकलाः सावधरम्मतया प्रवर्तन्ते । 'आणाए एगे'ति एके तु न कुमार्गवासितान्तःकरणाः, किन्त्वालस्याद्यपबंहितमतयः, I आज्ञायां-तीर्थकरप्रणीते सदाचारे निर्गतमुपस्थानम्-उद्यमो येषां ते निरुपस्थानाः-सर्वज्ञप्रणीतसदाचारानुष्ठानविकलाः। एतत्कुमार्गानुष्ठानं सन्मार्गावसीदनं च द्वयमपि ते-तव गुरुविनयोपगतस्य दुर्गतिहेतुत्वान्मा भूदिति । सुधर्मस्वामी स्वमनीषिकापरिहारार्थमाह-'एयं कुसलस्स'त्ति एतद-अनाज्ञायां निरुपस्थानत्वमाज्ञायां सोपस्थानत्वमित्येतस्कुशलस्य तीर्थकतो दर्शनं, कुमार्ग परित्यज्य सदाऽऽचार्यान्तिकवासिना एवम्भूतेन भाव्यं, 'तद्दिट्ठीए' तस्य-आचार्य AASEASTERSION ॥३१७
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy