________________
११५/५
आचा० प्रदी.
'जे आया य आत्मा नित्य उपयोगलक्षणः विज्ञाताऽप्यसावेव, न तु पुनस्तस्मादात्मनो भिन्नं ज्ञानं पदार्थसंवेदकं, यश्च विज्ञाता-पदार्थानां परिच्छेदक उपयोगात्माऽप्यसावेव, उपयोगलक्षणत्वाज्जीवस्योपयोगस्य च ज्ञानात्मकत्वात्, ज्ञानामनोरभेदाभिधानात् । 'जेण विजाणति'त्ति येन-मत्यादिना ज्ञानेन सामान्यविशेषाकारतया वस्तु जानाति विजानात्यसावात्मा, न तस्मादात्मनो भिन्नं ज्ञानम् । ज्ञानात्मनोश्चैकत्वे यद्भवति तदाह-'तं पडुच्च' तं ज्ञानपरिणामं प्रतीत्य-आश्रित्यात्मा तेनैव प्रतिसङ्ख्यायते-व्यपदिश्यते, यथा-मतिज्ञानी श्रुतज्ञानी यावत्केवलज्ञानी, यश्च ज्ञानात्मनोरेकत्वं मन्यते स किंगुणः स्यादित्याह-'एस आतावादी' एषोऽनन्तरोक्तया नीत्या यथावस्थितात्मवादी स्यात्, तस्य च सम्यग्भावेन शमि| तया वा पर्यायः-संयमानुष्ठानरूपो व्याख्यातः । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥१६६॥
॥ श्रीलोकसाराध्ययने पञ्चमोद्देशकप्रदीपिका समाप्ता ॥
॥३१६॥