SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ आचा प्रदी० PLA6 १२५५ 1952- R GISIS1995199 सर्वत्रैव च प्राण्युपमर्दचिकीर्षायामात्मतुल्यता' भावयितव्येतदुत्तरसूत्रैर्दर्शयति-'तुमं सि' त्वमपि नाम स एव यं प्रेषणादिना आज्ञापयितव्यमिति मन्यसे, तथा त्वमपि नाम स एव यं परितापयितव्यमिति मन्यसे, एवं यं परिगृहीतव्यमिति मन्यसे, यमपदावयितव्यमिति मन्यसे असौ त्वमेव, यथा भवतोऽनिष्टापादनेन दुःखमुत्पद्यते एवमस्यापीत्यर्थः। यदि नाम हन्तव्य-घातकयोरुक्तक्रमेणैक्यं ततः किमित्याह-'अंजू चेयं ति ऋजुः-प्रगुण ः साधुः चशब्दोऽवधारणे, एतस्य-हन्तव्यघातकैकत्वस्य प्रतिबोधस्तेन जीवितुं शीलमस्येति प्रतिबुद्धजीवी साधुरेवैतत्परिज्ञानेन जीवति नापर इति । यदि नामैवं तत किमित्याह तस्माद्-हन्यमानस्यात्मन इव महदुःखमुत्पद्यते तस्मादात्मौपम्यादन्येषां जन्तूनां न हन्ता स्यात, नाऽप्यपरैर्यातयेत्, न नतोऽनुमन्येत, किञ्च-'अणुसंवेयणं'ति संवेदनम्-[अनुभवनं] अनु-पश्चात्संवेदनं केन ? -आत्मना, यत्परेषां मोहोदयाद्धननादिना दुःखमुत्पाद्यते तत्पश्चादात्मना संवेद्यमिति ज्ञात्वा यक्किमपि हन्तव्यमिति चिकीपितं तन्नाभिप्रार्थयेत्-नाभिलषेत् ॥१६५॥ ननु च संवेदनं साताऽसातरूपं, तदात्मनो ज्ञानेन भिन्नेनाभिन्नेन वा भवतीत्यस्य प्रतिवचनमाह जे आता से विण्णाता, जे विण्णाता से आता। जेण विजाणति से आता । तं पडुच्च पडिसंखाए । एस आतावादी सभियार परियार वियाहिते ति बेमि (सू. १६६) ॥ आवंतीए पंचमो उद्देसओ सम्मत्तो॥ १० चिकीर्षिताया०-६०। RRRRIES ॥३१५॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy