SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० सम्यक्प्रवज्यामभ्युपगच्छतो विचिकित्सा शङ्का वा भवेत्, तत्रेदमुपदेष्टव्यम्, तदेव सत्यं यज्जिनैः प्रवेदितमित्येवं यथोपदेशं प्रवर्त्तमानस्य प्रवर्द्धमानकण्डकस्य सत उत्तरकालमपि तदधिकता तत्समता तन्न्यूनता तदभावो वा स्यादित्येवंरूपां विचित्र परिणामतां दर्शयितुमाह - 'समियं ति मण्णमाणस्स' तस्य श्रद्धावतः समनुज्ञस्य तदेव निःशङ्कं यज्जिनैः प्रवेदितमित्येवं मन्यमानस्य एकदा - उत्तरकालमपि शङ्कादिरहिततया सम्यगेव भवति न तीर्थकर भाषिते शङ्काद्युत्पद्यते १ । कस्यचित्तु प्रव्रज्यावसरे श्रद्धानुसारितया सम्यगिति मन्यमानस्य तदुत्तरकालं ज्ञेयगहनताव्याकुलितमतेरेकदा मिथ्यात्वांशोदये सम्यगिति भवति । 'असिमयंति' कस्यचित् मिथ्यात्वलेशानुविद्धस्य कथं पौद्गलिकः शब्द इत्यादिकमसम्यगिति मन्यमानस्य एकदा मिथ्यात्वपरमाणूपशमतया शङ्काद्यभावे गुर्वाद्युपदेशतः सम्यगिति भवति ३ । 'असमियं ति' कस्यचिदागमापरिमलितमतेः कथमेकेनैव समयेन परमाणोर्लोकान्तगमनमित्यादि असम्यगिति मन्यमानस्य एकदा - कुहेतुवितर्काविर्भावावसरे नितरामसम्यगेव भवति ४ । 'समियं ति' सम्यगित्येवं मन्यमानस्य शङ्कादिरहितस्य सतस्तद्वस्तु यत्नेन तथारूपतया तत्सम्यग्वा स्यादसम्यग्वा, तथापि तस्य तत्र सम्यगुत्प्रेक्षया पर्यालोचनया सम्यगेव भवति, ईर्यापथोपयुक्तस्य क्वचित्प्राण्युपमर्दवत् ५ । 'असमियं ति' असम्यगिति किश्चिद्वस्तु मन्यमानस्य शङ्का स्यादवग्दर्शितया छद्मस्थस्य सतस्तद्वस्तु सम्यग्वा स्याद ११५१५ ॥३१२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy