SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ A ११५/५ आचा प्रदी. निपुणस्य, अनधिगमस्त्वन्धस्य, तत्राऽनधिगमरूपोऽवस्त्वेव, सुखाधिगमस्तु विचिकित्साविषय एव न भवति, देशकालस्वभावविप्रकृष्ट विचिकित्सागोचरीभवति, तस्मिन् धर्माधर्माकाशादी या विचिकित्सा तां समापन्नः प्राप्तः आत्मा यस्य तेन विचिकित्सासमापन्नेनात्मना नोपलभते समाधि-चित्तस्वास्थ्यम् । विचिकित्साकलुषितान्तःकरणो हि कथयतोऽप्याचार्यस्य सम्यक्त्वाख्यां बोधिं नाप्नोति, यश्चाप्नोति स गृहस्थो यतित्याह--'सिता वेगे' सिताः-पुत्रकलत्रादिभिरवबद्धाः, एके वा लघुकर्माण: सम्यक्त्वं प्रतिपादयन्तमाचार्यमनुगच्छन्ति -आचार्योक्तं प्रतिपद्यन्ते, तथा असिता वा गृहवासविमुक्ता' वा एके विचिकित्सावादरहिता आचार्यमार्गमनुगच्छन्ति । _ 'अणुगच्छमाणेहि' सितासितैराचार्योक्तमनुगच्छद्भिर्बुध्यमानः कश्चिदज्ञानोदयात् क्षपकादिश्चिरप्रव्रजितोऽप्यननुगच्छन् अनवधारयन् कथं न निविद्येत ? निर्विष्णश्चेदमपि भावयेत् , यथा नाऽहं भव्यः स्यां न च मे संयतभावोऽस्ति, यतः प्रकटमपि कथितं नावगच्छामि, एवं च निर्विष्णस्याचार्याः समाधिमाहुः यथा-भोः साधो ! मा विषादं कुरु, भव्यो भवान् यतो भवता सम्यक्त्वमङ्गीकृत, तच न ग्रन्थिभेदं विना, ग्रन्थिभेदश्च न भव्यत्वं विना, अभव्यस्य हि भव्याभव्यशङ्काया अभावात् ।।१६२॥ किश्चतमेव सच्चं णीसंकं जं जिणेहिं पवेदितं (सू. १६३) १ गृहपाशवि०-० । २ ०मधिगतं-वृ० । RRECORESEASESCRECR55 ॥३१०॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy