________________
आचा० प्रदी०
BAR
११५५
AHASARASHARAMERPUR
आरम्भोपरताः, 'सभ्ममेतं ति पासहा' एतद्यन्मया प्रागुक्तं तत्सम्यग् मध्यस्था भूत्वा समर्यादं यूयमपि पश्यत । 'कालस्स कंखाए'त्ति काल:-समाधिमरणकालस्तदभिकाङ्क्षया साधवो मोक्षाध्वनि संयमे परिः-समन्ताद्वजन्ति-उद्यच्छन्ति, इतिरधिकारसमाप्तौ, ब्रवीमीत्येतत्प्रकरणपरिसमाप्तौ द्रष्टव्यमिति ॥१६१॥
आचार्याधिकारमुक्त्वा विनेयवक्तव्यतामाह-- वितिगिछसमावन्नेणं अप्पाणेणं णो लभति समाधि । सिता वेगे अणुगच्छंति, असिता वेगे अणुगच्छंति ॥
अणुगच्छमाणेहिं अणणुगच्छमाणे कहं ण णिविज्जे ? (सू. १६२) 'वितिगिंछ'त्ति विचिकित्सा-चित्तविप्लुतिः यया' [इदमस्ति] इदमप्यत्वेवमाकारो युक्त्या समुपपन्नेऽप्यर्थे मतिविभ्रमो मोहोदयाद्भवति, तथाहि-अस्य महतस्तपःक्लेशस्य सिकताकणकवलनिःस्वादस्य स्यात् सफलता न वा ? कृषीवलादिक्रियाया उभयथाप्युपलब्धेः, इयं च मतिमिथ्यात्वांशानुवेधाद्भवति ज्ञेयगहनत्वाच्च, तथाहि-अर्थस्त्रिविधः सुखाधिगमो दुरधिगमोऽनधिगमश्च श्रोतारं प्रति भिद्यते, तत्र सुखाधिगमो यथा-चक्षुष्मतश्चित्रकर्मनिपुणस्य रूपसिद्धिः, दुरधिगमस्त्व
१. यथा-पा०।
SI-AAAAAAAA
॥३०९॥