SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ भाचा० १।५।३. नदी. __इह प्रथमभङ्गपति तेनाधिकारः, तथाभूतस्यायं हृददृष्टान्तः, स च हृदो निर्मलजलप्रतिपूर्णी जलजैः सर्वतुजैरुपशोभितः | समे भूभागे विद्यमानोदकनिर्गमप्रवेशो नित्यमेव तिष्ठति, न कदाचिच्छोषमुपयाति, सुखोत्तारावतारसमन्वितः, उपशान्तरजाः, नानाविधांस्तु यादसां गणान् संरक्षन् तिष्ठति । यथा चासौ हदस्तथाचार्योऽपीति दर्शयति-स आचार्यः प्रथमभङ्गपतितः पञ्चविधाचारसमन्वितोऽष्टविधाचार्यसम्पदुपेतः पट्त्रिंशद्गुणगणाधारो हुदकल्पो निर्मलज्ञानपूर्णः समे भूभाग इति संसक्तादिदोषरहिते सुखविहारे क्षेत्रे तिष्ठति, किम्भूतः ? उपशान्तरजा-उपशान्तमोहनीय इति, किं कुर्वन् ? जीवनिकायान् रक्षन् स्वतः परतश्च सदुपदेशदानतो नरकादिपाताद्वा । स्रोतोमध्यगः-श्रुतार्थदानग्रहणसद्भावात् स्रोतोमध्यगतत्वम् , स च किम्भूतः 'से पास' स आचार्योऽक्षोभ्यहूदकल्पः सर्वप्रकारतयेन्द्रियरूपया गुप्त्या गुप्त इत्येतत्पश्य । आचार्यव्यतिरेकेणैवम्भूता बहवः सम्भवन्तीत्याह-पास लोए महे सिणों' इह मनुष्यलोके पूर्वव्यावणितस्वरूपा महर्षयो महामुनयः सन्तीत्येतत्पश्य, किम्भूतास्ते 'जे य पण्णाणमंता' न केवलमाचार्या हदकल्पा ये चान्ये साधवस्तेऽपि हूदकल्पाः, किम्भूताः ? प्रकर्षेण ज्ञायतेऽनेनेति प्रज्ञानं स्वपरावभासकत्वादागमस्तद्वन्तःआगमस्य वेत्तारः, प्रबुद्धाः प्रकर्षेण यथैव तीर्थकदाह तथैवावगततत्वाः, 'आरंभोवरता' आरम्भ:-सावधो योगस्तस्मादुपरता १. अष्टविधाचार्यसम्पदः "आयार' सुअ* सरीरे' वयणे बायण" मई पओगमई । एए सुसंपया खलु अमिआ संगहपरिन्ना ॥१॥" ॥३०८॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy