________________
आचा० प्रदी.
११५५
RESPESMIGGERLARISSA
॥ श्रीलोकसाराध्ययने पञ्चमोद्देशकः ॥ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देश केऽपतस्यै कचरस्य प्रत्यपाया दर्शिताः, अतस्तान् परिजिहीर्षणा सदाऽऽचार्यसेविना भवितव्यमित्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम् -
से बेमि, तं जहा-अवि हरदे पडिपुण्णे चिट्ठति समंसि भोमे उवसंतरए सारक्खमाणे । से चिट्ठति सोतमज्झए । से पास सब्बतो गुत्ते । पास लोए महेसिणो जे य पण्णाणता पबुद्धा आरंभोवरता। सम्ममेतं ति पासहा । कालस्स कंखाए परिवयंति त्ति बेमि (स. १३१) _ 'से बेमि' त्ति 'से' शब्दस्तच्छब्दार्थे, यद्गुण आचार्यों भवति तदहं तीर्थकरोपदेशानुसारेण ब्रवीमि, ते चामी भङ्गाः-एको हृदो परिगलस्रोताः पर्यागलस्रोताच, सीतासीतोदा प्रवाहहूदवत् १, अपरस्तु परिगलस्रोताः नो पर्यागलस्रोता: पद्महृदवत् २, तथापरो नो परिगलस्रोता: पर्यागलस्रोताश्च लवणोदधिवत् ३, अपरस्तु नो परिगलस्रोता नो पर्यागलस्रोताच, मनुष्यलोकाद् बहिः समुद्रवत् ४।।
तत्राचायः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणसद्भावात् १, साम्पायिककर्मापेक्षया तु द्वितीय भङ्गपतितः, कषायोदयाभावेन ग्रहणाभावात्तपःकायोत्सर्गादिना क्षपणोपपत्तेश्च २, आलोचनामङ्गीकृत्य तृतीय भङ्गपतितः, आलोचनाया अप्रतिश्रावित्वात् ३, कुमार्ग प्रति चतुर्थभङ्गपतितः कुमार्गस्य हि प्रवेशनिर्गमाभावात् ४।
॥३०७॥