________________
११५।३
भाचा प्रदी०
किंबहुना ? येन येनोपायेन विषयेच्छा निवर्तते तत्तत्कुर्यात्, पर्यन्ते आहारमपि व्यवच्छिन्द्याद, 'अवि चए इत्थीसु मणं' अपिः-ससुचये, स्त्रीषु यन्मनः प्रवृत्तं तत् परित्यजेत् ।
किं पुनः कारणं स्त्रीषु मनो न विधेयमित्याह-'पुवं दंडा' स्त्रीसङ्गप्रसक्तानामपरमार्थदृशां पूर्व-प्रथममेव तत्सङ्गाविच्छे. दार्थमर्थोपार्जनप्रवृत्तस्य कृषिवाणिज्यादिक्रियाः कुर्वतोऽगणितक्षुत्पिपासाशीतोष्णादिपरिषहस्यैहिकदुःखरूपा दण्डाः, ते | च स्त्रीसंभोगात्प्रथममेव क्रियन्त इति पूर्णमित्युक्तं, पश्चाच्च विषयनिमित्तजनितकर्मविपाकापादितनरकादिदुःखविशेषाः | स्पर्शा भवन्ति, पूर्व वा सुखादिस्पर्शाः पश्चाद्दण्डा ललिताङ्गस्येव ।
किश्च-'इच्चे ते' इत्येते स्त्रीसम्बन्धाः कलहः-सङ्ग्रामस्तत्राऽऽसङ्गः-सम्बन्धस्तत्करा भवन्ति ।
यद्येवं ततः किमित्याह-'पडिलेहाए' ऐहिकामुष्मिकापायतः स्रीसङ्गप्रत्युपेक्षया 'आगमेत्ता'त्ति ज्ञात्वा आतापयेदात्मा-| नमनासेवनया, इतिरधिकारपरिसमाप्तौ, ब्रवीम्यहं तीर्थ करवचनानुसारेण ।
पुनरपि तत्परिहरणोपायमाह-'से णो काहिए' स-स्त्रीसङ्गपरित्यागी स्त्रीनेपथ्यकथां अङ्गारकथां वा न कुर्यात्, 'णो पासणिए' तासामङ्गप्रत्यङ्गादिकं न पश्येत्, तथा 'णो संपसारए' ताभिः सह संप्रसारणं पर्यालोचनं न कुर्यात्, 'णो मामए' न तासु ममत्वं कुर्यात् , 'णो कतकिरिए' कृता-अनुष्ठिता तदुपकारिणी मण्डनादिका क्रिया येन स कृतक्रिप इत्येवम्भूतो न भूयात्, न स्त्रीणां वैयावृत्त्यं कुर्यात, 'वइगुत्ते' तथैव वाङ्मात्रेणापि नालपेत् , आत्मन्यधि अध्यात्म मनस्तेन संवृतोऽ
॥३०५॥