________________
आचा०
११५।४
प्रदी
NENERASHTERISTIANERIENRIES
रूपदर्शी, किञ्च-उपशान्तः कषायानुदयात्पञ्चभिः समितिभिः समितः सहितः-ज्ञानादिसमन्वितः सदा-सर्वकालं स एवम्भूतो | गुरोरन्तिकमावसन प्रमादजनितस्य कर्मणोऽन्तं विदधाति । स च स्च्याद्यनुकूलपरिषडोपपत्तौ किं विदध्यादित्याह- 'दट्टुं विपडिवेदेति' दृष्ट्वा-अवलोक्य स्त्रीजनमुपसर्गकरणायोद्यतमात्मानं विप्रतिवेदयति-पर्यालोचयति-किमेष स्त्रीजनो मम त्यक्तजीविताशस्योपसर्गादिकं विदध्यात् ।
यदिवैनं' स्त्रीजनस्य स्वभावं चिन्तयेदिति सूत्रेणैव दर्शयति-'एस से परमारामो' एष-स्त्रीजन आरमयतीति' आरामः, परमश्चासौ आरामश्च परमारामः, ज्ञाततत्वमपि जनं हासविलासादिभिर्मोहयतीत्यर्थः, याः काश्चनास्मिन् लोके स्त्रियस्ता मोहरूपा विज्ञाय यावन्न परित्यजन्ति तावत्स्वत एव परित्यजेत् ।
इति मुनिना श्रीवर्धमानस्वामिना प्रवेदितं प्रकर्षणादौ व्याख्यातम् ।।
एतच्च वक्ष्यमाणं प्रवेदितमित्याह–'उब्बाधिज्जमाणे'त्ति उत्-प्राबल्येन मोहोदयाद् बाध्यमानः पीड्यमानः, कैः ? -ग्रामधर्मः ग्रामाः-इन्द्रियग्रामास्तेषां धर्माः -स्वभावा यथास्वं विषयेषु वर्तनं तैरुवाध्यमानो गच्छान्तर्गतः सन् गुर्वादिनाऽनुशास्यते, कथमित्याह-'अवि णिब्बलासए' अपिः-सम्भावनायां, निर्बलं-निःसारमन्तप्रान्तादिकं यद्रव्यं तदाशकःतद्भोजी स्यात्, बलाभावे च ग्रामधर्मोपशमदर्शनाद, अप्यवमौदर्य कुर्यात्, तेनाप्यनुपशमेऽप्यूवं स्थानं तिष्ठेत, शीतोष्णादो। कायोत्सर्गेणातापनां कुर्यात, तेनाप्यनुपशमे ग्रामानुग्राममपि विहरेत्, निष्कारणे विहारो निषिद्धो मोहोपशमनार्थ तु कुर्यात् , |
१ वैवं-१० । २ आराम०-पा।
RECENGALORESTERRIORRRRRRRIA
॥३०४॥