________________
११५४
आचा०
प्रदी.
‘से अभिक्कममाणे ति स भिक्षुः सदा गुर्वादेशविधायी एतदव्यापारवान् भवति, तद्यथा-अभिक्रामन्-गच्छन् प्रतिक्रामन्-निवर्तमानः सङ्कुचन् हस्तपादादिसङ्कोचनतः प्रसारयन् हस्तादीनवयवान् विनिवर्तमानः समस्ताशुभव्यापारात् 'संपलिमज्जमाणे' सम्यक् परिः-समन्ताद्धस्तपादादीनवयवांस्तन्निक्षेपस्थानानि वा रजोहरणादिना प्रमृजन् गुरुकुलवासे वसेत् ।
एवं चाप्रमत्ततया पूर्वोक्ताः क्रियाः कुर्वतोऽपि कदाचिदवश्यम्भावितया यत्स्याचदाह-'एगया गुणसमितस्स'त्ति एकदा कदाचित् गुणसमितस्य गुणयुक्तस्याप्रमत्तयतेः रीयमाणस्य-सम्यगनुष्ठानवतः कस्यांचिदवस्थायां काय:-शरीरं तत्संस्पर्शमनुचीर्णा:-कायसङ्गमागताः सम्पातिमादयः प्राणिनः एके परितापमाप्नुवन्ति-एके ग्लानतामुपयान्ति एकेऽवयवविध्वंसमापद्यन्ते, अपश्चिमावस्थां तु सूत्रणव दर्शयति-एके प्राणाः-प्राणिनः अपद्रान्ति-प्राणैर्विमुच्यन्ते, अत्र कर्मबन्धं प्रति विचित्रता, तथाहि-शैलेश्यवस्थायां मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाऽभावान्नास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकषायाभावात् सामयिकः, अप्रमत्तयतेजघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतश्चान्त:कोटीस्थितिरिति, प्रमत्तस्य त्वनाकुट्टिकयाऽनुपेत्यप्रवृत्तस्य क्वचित्पाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यतः कर्मबन्ध उत्कृष्टतश्च प्राक्तन एव विशेषिततरः । स च तेनापि भवेन' दिव्यत इति दर्शयितुमाह-'इहलोगवेदण' ति इहास्मिन् लोके जन्मनि वेदनम्
१. तेनैव भ०-
AREGARENERGANGABRASHISAR
मा० २६
॥३०१॥