SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आचा० 2-1992 १।५।४ प्रदी. GEORGIA पौरूपं विज्ञानं चेत्येवमभिमान ग्रहगृहीतो वाङमात्रादपि गच्छा निर्गच्छति, तन्निर्गतोऽधिकरणादिविडम्बनयाऽऽत्मानं विडम्बयति । एवञ्च कोपाच्च गच्छनिर्गतस्यानभिव्यक्तस्य भिक्षोामानुग्राममेकाकिनः पर्यटतो यत्स्यात्तदाह-संबाह'त्ति तस्याव्यक्तस्यैकचरस्य पर्यटतः सम्बाधयन्तीति सम्बाधा:-पीडाः उपसर्गननिता नानाप्रकारातङ्कजनिता वा भूयो भूयो-बहव्यः स्युः, ताश्चाव्यक्तेन निरवद्यविधिना दुरतिक्रमाः-दुरतिलचनीयाः किम्भूतस्य दुरतिक्रमाः 'अजाणतो'त्ति तासां बाधानामधिसहनोपायमजानानस्य सम्यक्करणसहनफलं चापश्यतो दुरतिक्रमणीयाः पीडा भवन्ति । एतत्प्रदर्य भगवान् विनेयमाह-एतद् एकचर्याप्रतिपन्नस्य बाधादुरतिक्रमणीयत्वमजानानस्य अपथ्यतश्च ते-तव मदुपदेशवर्तिनो मा भवतु, आगमानुसारितया सदा गच्छान्तवर्ती भव ।। सुधर्मस्वाम्याह-'एयं ते एतद्यत्पूर्वोक्तं तत्कुशलस्य-श्रीवर्धमानस्वामिनो दर्शनमभिप्रायो यथाऽव्यक्तस्यैकचरस्य दोषाः सततमाचार्यसमीपवर्तिनश्च गुणाः। आचार्यसमीपातिना च किं विधेयमित्याह-'तविठ्ठीए' तस्याचार्यस्य दृष्टिस्तद दृष्टिस्तया सततं वर्तितव्यं हेयोपादेयेषु, 'तम्मुत्तीए' तेनोका सर्वसङ्गेभ्यो विरतिर्मुतिस्तन्मुक्तिस्तया सदा यतितव्यम् , तथा 'तपुरक्कारे' तस्य-आचार्यस्य पुरस्कारः सर्वकार्येष्वग्रतः स्थापनं तद्विषये यतितव्यं, 'तस्सणी' तस्य-आचार्यस्य | संज्ञा तत्संज्ञा-तज्ज्ञानं तद्वान् सर्वकार्येषु स्यात् , न स्वमतिविरचनया कार्य विदध्यात् , 'तण्णिवेसणे' तस्य-गुरोनिवेशनं ABARADABASABREARRORE ॥२९९॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy