SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी ० तथा श्रुतेनाव्यक्तो वयसा च व्यक्तः तस्याप्येकचर्या न कल्पते, अगीतार्थत्वादुभयविराधनासद्भावादिति द्वितीयो भङ्गः २ । तथा श्रुतेन व्यक्तो वयसा चाव्यक्तः तस्यापि न कल्पते, बालतया सर्वपरिभवास्पदत्वादिति तृतीयः ३ । यस्तूभयव्यक्तः स सति कारणे प्रतिमा का किविहारित्वमुद्यतविहारं वा प्रतिपद्यताम्र, अस्यापि कारणाभावे एकचर्या न कल्पते ४, यतस्तस्यां बहवो दोषाः प्रादुष्यन्ति, तथाहि - एकाकी पर्यटन् यदीर्यापथं शोधयति ततः श्वाद्युपयोगाद्भ्रश्यति तदुपयुक्त ने र्याप शोधयेदेवं शेषा अपि समितयो वाच्याः, अन्यच्च - अजीर्णेन वातादिक्षोभेण व्याध्युद्भवे संयमात्मविराधना प्रवचनहीलना च तत्र यदि करुणापन्ना गृहस्थाः प्रतिजागरणं कुर्युस्तर्बज्ञानतया पट्कायोपमर्देन संयमवाधामापादयेयुः, अथ न कश्चित्तत्र तथाभूतः कर्तव्योद्यतः स्यात् तत आत्मविराधना, तयाऽतिसारादौ मूत्रपुरीषजम्बालान्तर्वर्तित्वात् प्रवचनहीलना, अपि च- ग्रामादिव्यवस्थितः सन् धिग्जात्यादिना केशलुञ्चनाद्यधिक्षेपेणाधिक्षिप्तः सन् परस्परोपमर्दकारि दण्डादण्डभण्डनं विदध्यात् तच्च गच्छगतस्य न सम्भवति, गुर्वाद्युपदेशसम्भवात् ॥ १५७ ॥ किश्च वयसा वि एगे बुइता कुप्पंति माणवा । उष्णतमाणे य णरे महता मोहेण मुज्झति । १० लुञ्चिताय ० । १/५/४ ॥२९७॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy