SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ११५/४ आचा. प्रदी० PECARRIA ॥ श्रीलोकसाराध्ययने चतुर्थोद्देशकः ॥ उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-हिंसाविषयारम्भादिव्युदासेन तद्वतो दोष प्रदय विरत एव मुनिर्भवतीत्येतत्प्रतिपादितम् , अस्मिंश्च एकचरस्यामुनिभावे दोषोद्भावनतः कारणमाह, इत्यनेन सम्बन्धेनायातस्योद्देशकस्यादिसूत्रम् गामाणुगामं दूइज्जमाणस्स दुज्जातं दुप्परक्कतं भवति अवियत्तस्स भिक्खुणो (सू. १५७) 'गामाणुगाम'ति ग्रसते बुद्धयादिगुणानिति ग्रामः, ग्रामादनु-पश्चादपरो ग्रामो ग्रामानुग्रामस्तं, दूयमानस्य विहरतः एकाकिनः साधोर्यस्मात्तदाह-'दुज्जातं' दुष्टं यातं दुर्यातं, गमनक्रियाया गर्दा, गच्छत एवानुकूलप्रतिकूलोपसर्गसद्भावादहन्नकस्येव कृतगतिभेददुष्टव्यन्तरीजङ्घाच्छेदवत् , दुष्टं पराक्रान्तं स्थानमेकाकिनो भवति, स्थूलभद्रेणूंगतोपाशागृहसाधोरिवेति, एतच न सर्वस्यैव दुर्यातं दुष्पराक्रान्तं च भवतीत्यतो विशिनष्टि--'अवियत्तम्स' अव्यक्तस्य भिक्षोः, स चाव्यक्तः श्रुत-वयोभ्यां स्यात् , तत्र श्रुताव्यक्तो येनाचारप्रकल्पोऽर्थतो नाधिगतो भवति गच्छगतानां, गच्छनिगेतानां तु नवमपूर्वतृतीयवस्तु, वयसा चाव्यक्त आपोडशवर्षाद्गच्छगतानां तनिर्गतानां चात्रिंशतः। अत्र चतुर्भङ्गिका-श्रुतवयोभ्यामव्यक्तस्यैकचर्या न कल्पते, संयमात्मविराधनातः इत्याद्यो भङ्गः १। IRECTRESSING | ॥२९ ॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy