SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० व्याख्या - भगवान् सुधर्मस्वामी जम्बूनाम्न इदमाचष्टे यथा श्रुतम् - आकर्णितमवधारितमिति, अनेन स्वमनीषिकाव्युदासो, मयेति साक्षान्न पुनः पारम्पर्येण 'आउस तेणं'ति हे आयुष्मन् ! चिरंजीविन् ! सर्वगुणेष्वायुष्कस्यैव प्राधान्यात्, यदिवा - आमृशता भगवत्पादारविन्दम् इत्यनेन विनय आवेदितो मवति, अथवा आवसता' तदन्तिके, इत्यनेन गुरुकुलवासः कर्तव्य इत्यावेदितं भवति, भगवता - समग्रैश्वर्यादिगुणवता श्रीवर्धमानस्वामिना आख्यातं कथितं, इति शस्त्रपरिज्ञाध्ययने अथवा 'इहेति' ससारे एकेषां ज्ञानावरणीयावृत्तानां प्राणिनां नो संज्ञा भवति, संज्ञानं संज्ञा स्मृतिश्वबोधः सा नोपजायते । आहारसंज्ञादीनां बहुत्वेऽपि इह ज्ञानसंज्ञयाधिकारो यतः सैव निषिद्धा 'इह एकेषां नो संज्ञा ज्ञानमवबोधो भवती 'ति ॥ १ ॥ प्रतिषिद्धसंज्ञा विशेषावगमार्थमाह सूत्रम्- तं जहा पुरस्थिमातो वा दिसातो आगतो अहमंसि, दाहिणातो वा दिसातो आगतो अहमंसि पच्चत्थिमातो वा दिसातो आगतो अहमंसि, १ भावसता वा पा० । २ इहैव पा० । १1१1१ ॥ ८ ॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy