________________
आचा०
प्रदी०
परिज्ञापि चतुर्धा
दव्वं जाणण पच्चक्खाणे दविए सरीर उबगरणे । भावपरिण्गा जागण पच्चक्खाणं च भावेणं ॥
-
[आा. नि. गाथा ३७]
तत्र द्रव्यपरिज्ञा द्विधा ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च ज्ञपरिज्ञा आगमनोआगमभेदाद् द्विधा, आगमतो ज्ञाताsनुपयुक्तः, नोआगमतस्त्रिधा तत्र व्यतिरिक्ता द्रव्यपरिज्ञा यो यद् द्रव्यं जानीते सवित्तादि सा परिच्छेद्यद्रव्यप्राधान्यात् द्रव्यपरिज्ञेति । प्रत्याख्यानवरिज्ञाऽप्येवमेव, तत्र व्यतिरिक्त द्रव्य प्रत्याख्यान परिज्ञा देहोपकरणपरिज्ञानम्, उपकरणं च रजोहरणादि साधकतमत्वात् ।
भावपरिज्ञाऽपि द्विधैव-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च तत्रागमनो ज्ञातोपयुक्तच, नोआगमतस्त्विदमेवाध्ययनं ज्ञानक्रियारूपं, नोशब्दस्य मिश्रवावित्वान् । प्रत्याख्यानभाव परिज्ञापि तथैव, आगमतः पूर्ववत्, नोआगयतस्तु प्राणादिपातनिवृत्तिरूपा मनोवाक्कायकृतकारितानुमतिभेदात्मिक ज्ञेयेति । गतो नाम निष्पन्नो निक्षेपः ।
साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्
सुयं मे आउ ! ते भगवया एवमक्खायं - इहमेगेसिं णो सण्णा भवति (सू. १)
१ आगमतो० पा० ।
१।१।१
116 11