________________
आवा०
प्रदी०
साम्प्रतमाचारादिप्रदानस्य सुखप्रतिपत्तये द्रष्टान्तोपन्यासेन विधिराख्यायते यथा कश्चिद्राजाऽभिनवनगर निवेशेच्छया भूखण्डानि विभज्य रामतया प्रकृतिभ्यो दत्तवांस्तथा कववरापनयने शल्योद्धारे भूस्थिरीकरणे पक्वेष्टकापीठप्रासादरचने रत्नाद्युपादाने चोपदेशं दत्तवान् ताथ प्रकृतयस्तदुप देशद्वारेण तथैव कृत्वा यथाऽभिप्रेतान् सुखान् बुभुजिरे ।
अयमत्रापिनयः- राजसदृशेन सूरिणा प्रकृतिसदृशस्य शिष्यगणस्य भूखण्डसदृशः संयमो मिथ्यात्वकचवराद्यपनीय सर्वोपाधिशुद्धस्यारोपणीयः तं च सामायिकसंयमं स्थिरीकृत्य पक्वेष्टकापीठतुल्यानि व्रतान्यारोपणीयानि ततः प्रासादकल्पोऽयमाचारो विधेयः, तत्रस्थवाशेषशास्त्रादिरत्नान्यादत्ते, निर्वाणभागू भवति ।
अथ शस्त्रपरिज्ञाध्ययनस्य नामान्वर्थे नियुक्तिकृदाह, शस्त्रपरिज्ञेति द्विपदं नाम, शस्त्रस्य निक्षेपमाह
दव्वं सत्यग्गिविसन्नेहं बिलखार लोणमाईयं । भावो य दुप्पउतो वाया काओ अविरई या ॥ १ ॥ [ आ. नि. गाथा ३६ ]
शस्त्रस्य निक्षेपो नामादिचतुति, तत्र नामस्थापने क्षुण्णे, व्यतिरिक्तं द्रव्यशस्त्रं खड्गाद्यग्निविपस्ने हाम्ल क्षारलवणादिकं, भावशस्त्रं तु दुःप्रयुक्तो भावः - अन्तःकरणं, वाक्कायाऽविरतिश्चेति, जीवोपघातकारित्वादिति भावः । १ सर्वोपधा० पा० । २ तत्र पा० । ३ नापादे०पा० ।
%
१।१।१
॥६॥