________________
आचा०
प्रदी०
तत्र प्रथमचूलिकायां सप्ताध्ययनेषु क्रमेणोदेशक संख्या यथा - प्रथमाध्ययने एकादश, द्वितीये त्रयः तृतीये त्रयः, शेषेषु चतुर्षु द्वौ द्वौ उद्देशकौ ।
द्वितीयायां चूलिकायां सप्तै कसराण्यध्ययनानि' ।
तृतीया चूलिका एकाध्ययनात्मिका ।
एवं चतुर्थ्यपि चूलिका एकाध्ययनात्मिका । एवं सर्वमीलने पञ्चाशीतिरुदेशनकाला भवन्ति, यतः समवायाङ्गे नन्द्यांच"से णं अंगडयाए पढमे अंगे, दो सुक्खंधा, पणुवीसं अज्झयणा, पंचासीइं उद्देसणकाला, पंचासीई समुद्दे सणकाला, अट्ठारस पयसहस्साइं पयग्गेणं पन्नता" [सम० सूत्र १३६] [नंदी सूत्र ८५ ] *
इत्याद्यागमवचनात् कालिकश्रुतमाचाराङ्गं, यो विना कालग्रहणैर्विना तपसा च पठति, दाचयति, श्रावयत्यकृततपसः पार्थे च यः श्रृणोति तस्य सूत्राज्ञाभङ्गदोषः। आगमाज्ञाभङ्गो हि महते संसाराय, आचारी मोक्षाङ्गम्, यतो निर्युक्तिकृदाहअंगाणं किं सारो ? आयारो, तस्स हवइ किं सारो ? अणुओगत्थो सारो, तस्सवि य परूवणा सारो ॥ १ ॥ सारो परूवणाएं चरणं, तस्सवि य होइ निव्वाणं । निव्वाणस्स उ सारो अब्याबाहं जिणा बिति ॥ २ ॥ [आ. नि. गाथा १६।१७]
१ सप्ताध्ययनान्युद्दे शकरहितानि भवन्तीत्यर्थः । २ 'पन्नत्ता' इति पदं नन्द्यां नास्ति ।
१।१।१
॥ ५॥