________________
आचा०
प्रदी०
चतुर्थे यम्- प्राकनाध्ययनार्थसम्पन्नेन तापमादिकष्टतपः से विनामष्टगुणैश्वर्यमुद्वीक्ष्यापिदृढसम्यक्त्वेन भवितव्यमिति ४ । पञ्चमे त्वयम् - चतुरध्ययनार्थस्थिते नासारपरित्यागेन लोकसाररत्नत्रयोद्युक्तेन भाव्यमिति ५ । पृष्ठे त्वयम् - प्रागुक गुणयुक्तेन निसङ्गतायुक्तेनाप्रतिबद्धेन भवितव्यम् ६ ।
सप्तमे स्वयम् - संयमादिगुणयुक्तस्य कदाचिन्मोहसमुत्थाः परीषहा उपसर्गा वा प्रादुर्भवेयुस्ते सम्यक् सोढव्याः ७ । अष्टमे स्वयम् - निर्माणम्-अन्तक्रिया सा सर्वगुणयुक्तेन सम्यग् विधेयेति ८ ।
नवमाध्ययने स्वयम्-अष्टाध्ययनप्रतिपादितोऽर्थः सम्यगे वर्धमानस्वामिना विहित इति, तत्प्रतिपादनं चाशेषसाधूनामुत्साहार्थम् ९ । इति नवाध्ययनार्थाधिकारः ।
अथ उद्देशाधिकारः- तत्र प्रथमे श्रुतस्कन्धे नवस्वध्ययनेषु क्रमेण सप्त १ प २ चत्वारः ३ चत्वारः ४ षट् ५ पञ्च ६ अष्ट ७ चत्वारः ८ सप्त ९ उद्देशा भवन्ति ।
द्वितीये हि श्रुतस्कन्धे पञ्च चूलिकाः । तासु पञ्चमी निशीथाख्या सा इह न गृहयते, भिन्नस्थानरूपत्वात्तस्याः । तदग्रथाश्चतस्रः, तासु च प्रथम द्वितीये सप्त सप्ताध्ययनात्मिके । तृतीय- चतुर्थ्यां च एकैकाध्ययनात्मिके । १ सम्यगेव पा० ।
१।१।१
॥ ४ ॥