________________
११५/३
i
आचा० प्रदी०
___ यदेव सम्यक्प्रज्ञानं तदेव पापकर्मवर्जन, यदेव पापकर्मवजनं तदेव सम्यकपज्ञानमित्येतद्गतप्रत्यागतसूत्रेण दर्शयितुमाह-'जं सम्म ति' सम्यगिति-सम्यग्ज्ञानं सम्यक्त्वं वा तत्सहचरितं, अनयोः सहभाबादेकग्रहणे द्वितीयग्रहणं न्याय्यं, यदिदं सम्यगज्ञानं सम्यक्त्वं वेत्येतत्पश्यत तन्मुनेर्भावो मौनं-संयमानुष्ठानमित्येतत्पश्यत, [यच्च मौनमित्येतत् पश्यत] तत्सम्यगज्ञानं नैश्चयिकसम्यक्त्वं वा पश्यत, ज्ञानस्य विरतिफलत्वात् सम्यक्त्वस्पाभिव्यक्तिकारणत्वात् सम्यक्त्वज्ञानचरणानामेकताऽध्यवसेयेति' भावः। ___एतच्च न येन केनचिच्छ क्यमनुष्ठातुमित्याह-'ण इमं सक्कं' नैतत्सम्यक्त्वादित्रयं सम्यगनुष्ठातुं शक्यं, कैः ? शिथिलैं:अल्पपरिणामतया मन्दवीयः संयमतपसोऽतिदृढिमरहितः, किश्च-'अदिजमाणेहि' आर्दैः पुत्रकलाद्यनुपङ्गजनितस्नेहादा
क्रियमाणैरेतत्पूर्वोक्तमशक्यमिति सम्बन्धः, किश्च-गुणासाएहि' गुणाः-शब्दादयस्तेष्वास्वादो येषां ते गुणास्वादास्तैः, किश्च-'वंकसमायारेहिं' वक्र: समाचारो येषां ते तथा तैः, मायाविभिः, 'पमत्तेहि' विषयकषायादिप्रमादैः प्रमः, 'गारमावसंतेहिं' अगारं-गृहं तदाद्याक्षरलोपाद्गारमित्युक्तं तदगारमावसद्भिः-सेवमानैः, पापकर्मवर्जनरूपं मौनमनुष्ठानमशक्यमिति सर्वत्र योज्यम् ।
कथं तर्हि शक्यमित्याह-'मुणी मोणं ति मुनिः-जगत्त्रयस्य मन्ता मौन-मुनित्वमशेषसावधानुष्ठानवर्जनरूपं समादायगृहीत्वा धुनीयाच्छरी कमौदारिकं कर्मशरीरं वा । १. मेकाध्यवसायतेति पा० ।
OSEOCEROSAROSTOSTEOSSES
॥२९४॥