________________
११५।३
आचा प्रदी०
PESUSEGLARIAREGISTROSERIES
परिज्ञयाऽपि सर्वतः परिहरेत् । कथं परिहरतीत्याह –'से ण हिंसति' स कर्मपरिहर्ता कायवाङ्मनोभिर्न हिनस्ति जन्तून् , न घातयत्यपरै प्यनुमन्यते । किञ्च 'संजमती' पापोपादानप्रवृत्तमात्मानं संयमयति, सप्तदशप्रकारं वा संयमं करोति संयमयति, 'णो पगब्भति' 'गल्भ धाष्र्ये [ ] असंयमकर्मसु प्रवृत्तः सन् न प्रगल्भत्वमायाति, रहस्यकार्यप्रवृत्तो जिहेति न धष्टतामवलम्बते । उपलक्षणत्वान्न क्रुध्यति, न जात्यादिमानमुद्वहति, न वश्चनां विधत्ते, न लुभ्यति ।
किमाकलय्यैतत्कुर्यादित्याह-'उवेहमाणे'त्ति उत्प्रेक्षमाणोऽवगच्छन् प्रत्येक प्राणिनां सातं मनोऽनुकूलं नान्यसुखेनान्यः सुखी नाऽपि परदुःखेन दुःखी अतः प्राणिनो न हिंस्यात् । प्राणिनां प्रत्येक सातमुत्प्रेक्षमाणश्च किं कुर्यादित्याह-'वण्णादेसी' वर्ण्यते-प्रशस्यते येन स वर्णः-साधुकारस्तदादेशी वर्णा देशी-वर्णाभिलाषी सन् नारभते कञ्चन पापारम्भं सर्वस्मिन्नपि लोके ।
किम्भूतः सन्नेतत्कुर्यादित्याह-'एगप्पमुहे' एको-मोक्षोऽशेषमलकलङ्करहितत्वात संयमो वा रागद्वेषरहितत्वात् तत्र प्रगतं मुखं यस्य स तथा मोक्षे तदुपाये वा दत्तकदृष्टिन कञ्चन पापारम्भमारभेत', किश्च-'विदिसप्पतिपणे मोक्षसंयमाभिमुखा दिक् ततोऽन्या विदिक् तां प्रकर्षेण तीर्थों विदिप्रतीर्णः, स चैवम्भूतः सन्नारम्भी स्यात् , कुमार्गपरित्यागेन न पापारम्भान्वेषी भवति, किश्च-'णिविण्णचारी' चरणं चारोऽनुष्टानं निर्विण्णस्य चारो निर्विण्णचारः सोऽस्यास्तीति निविण्णचारी, कुत इति चेत् , 'अरते पयासु' यतः प्रजास्वरतः प्रजायन्त इति [प्रजा:-] प्राणिनस्तत्रारतः-तदारम्भनिवृत्तो निर्ममत्वो वा, यश्च शरीरादिषु ममत्वरहितः स निर्विण्णचार्येव भवति ।। १५५ ॥ १. रम्भ समारभते-मु० ।
॥२९२॥