________________
१।५।३
SANSARIES RESEARES
कस्यचित्कोऽप्यध्यवसायः संसारवैचित्र्यहेतुः भाषितः, स च मतिमता तथैवाङ्गीकर्तव्यः।
तदेव परिज्ञाननानात्वं दर्शयन्नाह-'चुते' लब्ध्वापि दुर्लभ मनुजत्वं प्राप्य च मोक्षकहेतु' धर्म पुनरपि कर्मोदयात्तस्मात् च्युतो बाल:-अज्ञ गर्भादिषु रज्यते-गर्भ आदिर्येषां कुमारयौवनावस्थाविशेषाणां ते गर्भादयस्तेष्वेव गार्थ्यनुपयाति, यथैभिः सार्द्ध मम वियोगो मा भूत् इत्यध्यवसायी भवति । स्यात्-क्योक्तमिदं ? यत् प्राग्व्यावणितमित्याह-अस्मिन्निति आर्हते प्रवचने एतत्-पूर्वोक्तं प्रकर्षणोच्यते प्रोच्यते । एतच्च वक्ष्यमाणमत्रैवोच्यते इति दर्शयन्नाह-'रूवंसि वा' रूपे-चक्षुरिन्द्रियविषयेऽध्युपपन्नो वा शब्दात स्पर्शरसादौ वा, 'छणंसि वा' क्षणनं-हिंसनं तत्र प्रवर्तते, वाशब्दादनृतस्तेयादौ च ।
बालो रूपादिविषयनिमित्तं धर्माच्युतः सन् गर्भादिषु रज्यते, अत्राईते मार्गे इदमुच्यते, यस्तु पुनर्ग दिगमन हेतुं ज्ञात्वा विषयसङ्ग धर्मादच्युतो हिंसाद्याश्रवद्वारेभ्यो निवर्तते स किम्भूतः स्यादित्याह-'से हुएगे'त्ति स-जितेन्द्रियो हुरवधारणे, स एवैक:-अद्वितीयो मुनि:-जगत्त्रयमन्ता संविद्धपथ:-सम्यविद्धस्ताडितः क्षुण्णः पन्थाः-मोक्षमार्गों ज्ञानदर्शनचारित्राख्यो येन, यो ह्याश्रवद्वारेभ्यो निवृत्तः स एव मुनिः क्षुण्णमोक्षमार्गः। किश्च 'अण्णहा लोगं'ति अन्येन प्रकारेणान्यथा-विषयकषायाभिभूतं हिंसादिकर्मसु प्रवृत्तं लोकमुत्प्रेक्षमाणोऽन्यथा वाऽऽत्मानं निवृत्ताशुभव्यापारमुत्प्रेक्षमाणः संविद्धपथो मुनिः स्यात् ।
लोकं चान्यथोत्प्रेक्ष्य किं कुर्यादित्याह-इति-पूर्वोक्तहेतुभिर्यवद्धं कम तदुपादानश्च परिज्ञाय ज्ञपरिज्ञया प्रत्याख्यान१ मोकगमनहेतुं-० । २ इत्येतदध्यवसायी-मु० ।
AIRSHASSISASARASHTRA
S
|॥२९॥
URE