________________
आचा०
प्रदी०
मा० २५
यामोsपररात्रं रात्रेः पाश्चात्यो यामः एतद्यामद्वयमपि यतमानः सदाचारमाचरेत्, मध्यवर्तियामद्वयमपि यथोक्तविधिना स्वपन् वैरात्रिक' विदध्यात्, रात्रियतनाप्रतिपादनेन च दिवापि प्रतिपादितैव भवति, आद्यन्तग्रहणे मध्यग्रहणस्यावश्यम्भावित्वात् । 'सया सीलं संपेहाए' सदा सर्वकालं शीलमष्टादशसहस्रभेदभिन्नं संयमं वा यदि वा चतुर्धा शीलं - महाव्रतसमाधानं तिस्रो गुप्तयः पञ्चेन्द्रियदमः कषायनिग्रहश्वेत्येतत् सम्प्रेक्ष्य मोक्षाङ्गतयाऽनुपालयेत् क्षणमपि न प्रमादवशगो भूयात् । कश्च शीलसम्प्रेक्षकः स्यादित्याह - 'सुणिया भवे अकामे' यो हि वा शीलप्रेक्षणफलं निःशील निर्वतानां च नरकादिपातविपाकमा - कर्ण्याऽऽगमात् भवेत् अकामः - इच्छामदनकामरहितस्तथा 'अझंझे' नास्य झझा - माया लोभेच्छा वा विद्यते इत्यझञ्झः, धर्म श्रुत्वा [ स्यात् ] अकामोऽझंझ श्वेत्यनेनोत्तरगुणा गृहीताः, उपलक्षणत्वाच्च मूलगुणा अपि गृहीताः, तेनाहिंसकः सत्यवादीत्याद्यपि द्रष्टव्यम् ।
ननु चान्यज्जीवाच्छरीरमित्येवं भावनायुक्तस्यानिगूहितबलवीर्यस्य पराक्रममाणस्याष्टादशशीलाङ्गसहस्रधारिणोऽपि मे यथोपदेशं प्रवर्तमानस्यापि नाऽशेषकर्ममलापगमोऽद्यापि भवतीत्यतस्तथाभूतमसाधारण [ कारण ] माचक्ष्व येनाहं शीघ्रमेवाशेषमलकलङ्करहितः स्याम्, अहं च भवदुपदेशादपि सहेनापि सह युद्ध्ये, न मे कर्मक्षयार्थं प्रवृत्तस्य किश्चिदशक्यमस्तीत्यत्रोतरं सूत्रेणैवाह - 'इमेण चैव जुझ्जाहि' अनेनैवौदारिकेण शरीरेणेन्द्रियनोइन्द्रियात्मकेन विषयसुखपिपासुना स्वैरिणा सार्द्ध १ वैरात्रादिकं पृ० । २ यतना आद्य० पा० । ३ ०त्तर० पा० ।
१२५/३
॥ २८९ ॥