________________
आचा. प्रदी०
१५/३
PEARRARSAPPROPAR
येऽपि स्वयथ्या: पार्श्वस्थादयो द्विविधयाऽपि परिज्ञया लोकं परिज्ञाय पुनः पचनपाचनाद्यर्थ तमेव लोकमन्वाश्रितास्तेऽपि तादृशा एवेति ॥१५३॥ स्वमनीषिकापरिहारार्थमाह--
एयं णिदाय मुणिणा पवेदितं ।
इह आणाकंखी पंडिते अणिहे पुव्वावरायं जतमाणे सया सीलं संपेहाए सुणिया भवे अकामे अझंझे।
इमेण चेव जुझ्जाहि, किं ते जुन्झेण बज्झतो ? (सू. १५४) 'एयं णिदायेति एतद्-यदुत्थाननिपातादिकं प्रागुपन्यस्तं [तत्] केवलज्ञानावलोकेन 'णिदाय' ज्ञात्वा मुनिना तीर्थकृता प्रवेदितं-कथितम् ।
इदं चान्यत्प्रवेदितमित्याह-'इह आणाकंखी ति इह-अस्मिन् मौनीन्द्रे प्रवचने व्यवस्थितः सन् आज्ञां-तीर्थकृतोपदेश आकाङ्क्षितुं शीलमस्येति आज्ञाङ्काक्षी-आगमानुसार[प्रवृत्तिकः, कश्चैवम्भूतः ? पण्डित:-सदसद्विवेकज्ञः अस्निहः-स्नेहरहितः, रागद्वेषविप्रमुक्तोऽहनिशं गुरुनिर्देशवर्ती यत्नवान् स्यादित्येतदाह-'पुब्बावरायं जतमाणे त्ति पूर्वरात्र-रात्रेः प्रथमो
॥२८८॥