________________
१।५।३
आचा प्रदी.
ARRECAREKAKKARACTEREORER
'जे पुवुट्ठाई' यः कश्चिद्विदितसंसारस्वभावत या धर्मचरणकप्रणमनाः पूर्व-प्रव्रज्याऽवमरे संयमानुष्ठानेनोत्थातुं शीलमस्येति पूर्वोत्थायी पश्चाच्च श्रद्धासंवेगतया विशेषेण बर्द्धमानपरिणामो नो निपाती, निपतितुं शीलमस्येति निपाती, सिंहतया निष्क्रान्तः सिंहतया विहारी च गणधरादिवत् प्रथमो भगः।। ____ द्वितीयभङ्ग सूत्रेणैव दर्शयति--जे पुबुट्ठाई' पूर्वमुत्थातुं शीलमस्येति पूर्वोत्थायी, पुनर्विचित्रत्वात् कर्मपरिणतेस्तथाविधभवितव्यतानियोगात्पश्चाभिपाती स्यात् , नन्दिषेणवत् , कश्चिद्दर्शनतोऽपि गोष्ठामाहिलवत् ।
तृतीयभङ्गस्य चाऽभावादनुपादानं, स चायम्-नो पूर्वोत्थायी पश्चाग्निपातीति, तथाहि-उत्थाने सति निपातोऽनिपातो वा चिन्त्यते', सति धर्मिणि धर्मचिन्ता, तदुत्थानप्रतिषेधे च दूरोत्सादितैव निपातचिन्ता ।
चतुर्थभङ्गदर्शनायाह-'जे णो पुच्वुट्ठाई णो पच्छाणिवाती' यो हि नो पूर्वोत्थायी न च पश्चाभिपाती सोऽविरत एव | गृहस्थः सनोत्थायी भवति सम्यग्बिरतेरभावात् , नापि पश्चानिपाती उत्थानाविनाभाविवान्निपातस्य, शाक्यादयो चतुर्थभङ्गपतिता द्रष्टव्याः।
एतदेव दर्शयति--से वि तारिसए'त्ति सोऽपि शाक्या दिर्गणः पञ्चमहावतभारारोपणाभावेन सावद्ययोगानुष्टानत या नो पूर्वोत्थायी निपातस्य च तसूर्वकसानो पश्चानिपातीत्यतस्तादृश एव-गृहस्थतुल्य एव स्याद् , आश्रबद्वाराणामुभयेषामप्यसंवृतत्वात् , उदायिनृपमारकवत् । अन्येऽपि ये सावद्यानुष्ठायिनस्तेऽपि तादृक्षा एवेत दर्शयन्नाह--'जे परिण्णाय'त्ति
१ सति निपातश्चिन्त्यते-पा० ।
॥२८७॥