________________
आचा. प्रदी०
AAAAAAAAAAAAS
पुनरुत्पन्न निरावरणज्ञानानां तीर्थकृतां वाग्योगो भवति येनासावाकयंते ? उच्यते-धर्मकथाऽवसरे, किम्भूतस्तैः पुनर्धर्मः ||३|| १५।३ प्रवेदित इत्याह-समियाए'त्ति समता-समशत्रुमित्रता तयाऽऽर्यैर्धर्मः प्रवेदितः।
स्याद-अन्यैरपि स्वाभिप्रायेण धर्माः प्रवेदिता एवेत्यतस्तदव्युदासाथ भगवाने वाह--'जहेत्थ मए'त्ति सदेवमनुजायां पर्षदि भगवानेवमाह--यथाऽत्र मया ज्ञानादिको मोक्षसन्धिः 'झोसिते' सेवितः अतो य एव तीर्थकृद्भिर्धर्मोऽभिहितः स एव मोक्षमार्गों नापर एतदेवाह-एवमण्णत्थ'त्ति यथाऽत्र मया सन्धिोषितः एवमन्यत्र-अन्यतीर्थिकप्रणीते मोक्षमार्गे सन्धिः || कर्मसन्ततिरूप: दुर्योध्यो भवति-दुःक्षयो भवति, असमीचीनतया तदुपायाभावाद ।
यदि नाम भगवताऽत्र कर्मसन्धिसैपितस्ततः किमित्याह--'तम्हा बेमि' यस्मादस्मिन्नेव मार्गे व्यवस्थितेन मयाऽपि विकृष्टतरेण तपसा कर्म क्षपितं ततोऽन्योऽपि साधुः संयमानुष्ठाने वीर्य नो निहन्यात्-नो निगृहयेदनिहितबलवीर्यो भूयाद, एतदहं ब्रवीमि परम कारुण्याकृष्टहृदयः परहितकोपदेशदायीत्येतद्वीरवर्धमानस्वाम्याह, सुधर्मस्वामी स्वशिष्याणां क्थयति स्म ।। १५२॥
___ कश्चैवम्भूतः स्यादित्याह--
जे पुव्वुट्ठाई णो पच्छाणिवाती । जे पुवुट्ठाई पच्छाणिवाती । जे णो पुव्वुट्ठाई णो पच्छाणिवाती । से वि तारिसए सिया जे परिण्णाय लोगमण्णेसिति (सू. १५३)
॥२८६॥