________________
अथ किमर्थ पराक्रमणोपदेश इत्यत आह-पतेसु चेव'त्ति य इमे परिग्रहविरताः परमचक्षुषश्चैतेष्वेव परमार्थतो ब्रह्मचर्य नान्येषु, नवविधब्रह्मचर्यगुप्त्यभावाद, इतिरधिकारसमाप्तौ, ब्रवीम्यहं यदुक्तं वक्ष्यमाणं च सर्वज्ञोपदेशादित्याह-- _ 'से सुतं च तद्यत् कथितं यच्च कथयिष्यामि तत्छूतं च मया तीर्थकरसकाशात तथा आत्मन्यधि अध्यात्मं ममैतच्चेतसि व्यवस्थितं, किं तदध्यात्मनि स्थितमिति दर्शयति--बन्धात्सकाशात्प्रमोक्षः बन्धप्रमोक्षस्तव अध्यात्मन्येव-ब्रह्मचर्ये व्यवस्थितस्यैवेति ।
किश्च--'एत्य विरते' अत्र-अस्मिन् परिग्रहे जिक्षिते विरतः, कोऽसौ ? नास्यागारं-गृहं विद्यत इत्यनगारः, स एवम्भूतो दीर्घरात्रं-यावज्जीवं परिग्रहाभावात् यत् क्षुत्पिपासादिकमागच्छति तत् तितिक्षेत ।
पुनरप्युपदेशदानायाह--'पमत्ते' प्रमत्तान् विषयादिभिः प्रमादैहि[र्धमाद व्यवस्थितान् पश्य परतीथिकादीन् , दृष्ट्या च किं कुर्यादिति दर्शयति--'अप्पमत्तो' अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति ।
किञ्च--'एयं मोणं 'ति एतत्पूर्वोतं संयमानुष्ठानं मुनेरिदं मौनं-सर्वज्ञोक्तं सम्यग् अनुवासये:-प्रतिपालयेः इतिःअधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ १५१ ।।
॥ श्रीलोकसाराध्ययने द्वितीयोदेशकप्रदीपिका समाता ॥
॥२८४॥