SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ A-% वाचा १।५।२ दी. वा चित्तमंत वा अचित्तमंत वा. एतेसु चेव परिग्गहावंती । एतदेवेगेसि महब्भयं भवति । लोगवित्तं च णं उवेहाए । एते संगे अविजाणतो। यावन्तः केचन लोके परिग्रहवन्त:-परिग्रहयुक्ताः स्युस्त एवम्भूतपरिग्रहसद्भावादित्याह--‘से अप्पं वा' तद्व्यं । यत्परिगृह्य ते तदल्पं वा स्तोकं वा स्यात् कपर्दकादि, बहु वा स्यात् धनधान्यहिरण्यग्रामजनपदादि, अणु वा स्यात् मूल्यतस्तृणकाष्ठादि प्रमाणतो बज्रादि, स्थूलं वा स्यात् मूल्यतः प्रमाणतश्च हस्त्यश्वादि, एतच्च चित्तवद्वा स्यादचित्तवद्वेति । एतेन च परिग्रहेण परिग्रहवन्तः सन्त एतेस्वेव परिग्रहवत्सु गृहस्थेष्वन्तर्वतिनो तिनोऽपि स्युः। एतच्चाल्पादिपरिग्रहेण परिग्रहवत्त्वमपरिग्रहाभिमानिनां चाहारशरीरादिकं महतेऽनयेति दर्शयन्नाह-'एतदेवेगेसिं' एतदेव-अल्पबहुत्वादिपरिग्रहेण परिग्रहवचमेकेषां-परिग्रहवतां नरकादिगमनहेतुत्वात् सर्वस्याविश्वासहेतुत्वाद्वा महाभयं भवति । यतः परिग्रहो महाभयमतोऽपदिश्यते--'लोगवित्तंति लोकस्याऽसंयतलोकस्य वित्तं-द्रव्यमल्पादिविशेषणविशिष्टं, च शब्द:-पुनःशब्दार्थे, णं-वाक्यालङ्कारे, लोकवित्तं लोकवृत्तं वा आहारभयमैथुनपरिग्रहोत्कटसंज्ञात्मकं महते भयाय पुनरुत्प्रेक्ष्य ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया परिहरेत् । ECAREE% ||२८२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy