________________
पाचा. दी.
११५२
AAS करॐॐॐ.
पूर्वोक्तरूपसन्धि, भिदुरधर्माद्याधातौदारिकं पञ्चेन्द्रियनिर्वृत्तिकाभावसरात्मकं, दृष्ट्वा च विविधातङ्कजनितान् स्पर्शानध्यासयेत् ॥१४८॥ एतत्पश्यतश्च यत्स्यात्तदाह
समुप्पेहमाणस्स एगायतणरतस्स इह विप्पमुक्कस्स णस्थि मग्गे विरयस्स ति बेमि | (सू. १४९) 'समुप्पेहमाणस्स' सम्यगुत्प्रेक्षमाणस्य-पश्यतोऽनित्यताघ्रातमिदं शरीरकमित्येवमवधारयतो नास्ति मार्ग इति सम्बन्धः 'एगायतणरतस्स' आङ्-अभिविधौ समस्तपापारम्भेभ्य आत्मा आयत्यते यस्मिन् कुशलानुष्ठाने वीर्यवान् यत्नवान् क्रियते इत्यायतनं-ज्ञानादित्रयम् , एकम्-अद्वितीयमायतनमेकायतनं तत्र रतस्तस्य, किश्च-इह-शरीरे जन्मनि वा विविधं परमार्थभावनया शरीरानुबन्धात् प्रमुक्तो विप्रमुक्तस्तस्य नास्ति-न विद्यते, कोऽसौ ? मार्गों-नरकतिर्यङ्मनुष्यगमनपद्धतिर्न भविष्यति, कस्येति दर्शयति-विरतस्य हिंसाद्याश्रवद्वारेभ्यो निवृत्तस्य, इतिरधिकारसमाप्तौ, ब्रवीमीति सुधर्मस्वाम्यात्मानमाह,यद्भगवता वीरवर्धमानस्वामिना दिव्यज्ञानेनार्थानुपलभ्य वाग्योगेनोतं तदहं भवतां ब्रवीमि, न स्वमतिविरचनेनेति ॥१४९।। पिरत एव मुनिर्भवतीत्येतत्प्रतिपाद्य साम्प्रतम् 'अविरतवादी परिग्रहवानि'ति यदुक्तं तत्प्रतिपादयन्नाह -
आवंती केआवंती लोगंसि परिगहावंती, से अप्पं वा बहुं वा अणुं वा थूलं