________________
A
१।५।२
आचा प्रदी.
RE
एतैरातकैः स्पृष्टः सन् तान् स्पर्शान् दुःखानुभवान् व्याधिविशेषापादितानध्यासयेत्-सहेत ।
किमाकलय्येत्याह-'से पुव्वं पेतंति स स्पृष्टः पीडित आशुकारिभिरातकैरेतद्भावयेद यथा-पूर्वमप्येतद-असातावेदनीयविपाकजनितं दुःखं मयैव सोढव्यं, पश्चादेतन्मयैव सहनीयं, यतः संसारोदरविवरवती न विद्यते एवासौ यस्यासातावेदनीय. विपाकापादिता रोगातङ्का न भवेयुः, तथाहि-केवलिनोऽपि मोहनीयादिधातिचतुष्टयक्षयादुत्पन्नज्ञानस्य वेदनीयसद्भावेन तदुदयात्तत्सम्भव इति, यतश्च तीर्थकरैरप्येतद्वद्धस्पृष्टनिधत्तनिकाचनावस्थायातं कर्मावश्यं वेद्यं नान्यथा तन्मोक्षः, अतोऽन्येनाप्यसातावेदनीयोदये सनत्कुमारद्रष्टान्तेन मयैवेतत्सोढव्यमित्याकलय्य नोद्विजितव्यम्, अपिच-एतदौदारिकं शरीरं सुचिरमप्यौषधरसायनाद्युपवंहितं मृन्मयामघटादपि निःसारतरं सर्वदा विशरारु इति दर्शयन्नाह-'भेउरधम्म' स्वयमेव भिद्यत इति भिदुरः, 'विद्धंसणधम्म' विध्वंसनधर्म पाणिपादाद्यवयवविध्वंसनात्, तथा 'अधुवं' अवश्यम्भावसम्भावितं त्रियामान्ते सूर्योदयवत् ध्रुवं न तथा यत्तदध्रुवं तथा 'अणितियं' अप्रयुतानुत्पन्नस्थिरे कस्वभावतया कूटस्थनित्यत्वेन व्यवस्थितं सन्नित्यं नैवं यत्तदनित्यं, तथा तेन तेन रूपेणोदकधारावच्छश्वद्भवतीति शाश्वतं ततोऽन्यदशाश्वतं 'चयावचइयं' इष्टाहारोपभोगतया धत्युपष्टम्भादौदारिकवर्गणापरमाणूपचयाचयः तदभावेन तद्विचटनादपचयः, चयापचयौं विद्यते यस्य तच्चयापचयिक, अत एव 'विप्परिणामधम्म' विविधः परिणाम:-अन्यथाभावात्मको धर्मः स्वभावो यस्य तद्विपरिणामधर्म । यतश्चैवम्भूतमिदं शरीर. कमतोऽस्योपरि कोऽनुबन्धः का मूर्छा ? नास्य कुशलानुष्ठानमृतेऽन्यथा साफल्यमित्येतदेवाह-'पासह एवं ति पश्यतेनं
-
॥२८॥
E