SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आचा प्रदी० RE कथितः प्रवेदितः। न केवलमनन्तरोक्तो वक्ष्यमाणश्च तीर्थकरैः प्रवेदित इत्याह-'उद्विते णो' सन्धिमधिगम्योत्थितो धर्म ११५/२ चरणाय क्षणमप्येकं न प्रमादयेत् । किश्चापरमधिगम्येत्याह-'जाणित्तु' ज्ञात्वा प्राणिनां प्रत्येकं दुःखं तदुपादानं वा कर्म तथा प्रत्येकं सातं च-मनाहादि ज्ञात्वा समुत्थितो न प्रमादयेत् । न केवलं दुःखं कर्म वा प्रत्येक, तदुपादानभूतोऽध्यवसायोऽपि प्राणिनां भिन्न एवेति दर्शयितुमाह-पृथग-भिन्नः छन्द:अभिप्रायो येषां ते पृथक् छन्दाः, नानाभूतबन्धाध्यवसायस्थाना', इहेति संसारे संज्ञिलोके वा, के ते ? मानवा:-मनुष्याः, उपलक्षणार्थत्वादन्येऽपि, संज्ञिनां पृथक् संकल्पत्वाच्च तत्कार्य कर्मापि पृथगेव, तत्कारणमपि दुःखं नानारूपं, कारणभेदे कार्यभेदस्यावश्यंभावित्वादिति। अतः पूर्वोक्तं स्मारयन्नाह-'पुढो दुक्खं दुःखोपादानभेदाद् दुःखमपि प्राणिनां पृथक् प्रवेदितं, सर्वस्य स्वकृतकर्मफले. श्वरत्वात् नान्य कृतमन्य उपभुङयते इति । एतन्मत्वा किं कुर्यादित्याह-'से अविहिंसमाणे'त्ति स:-अनारम्भनीवी प्रत्येकमुखदुःखाध्यवसायी प्राणिनो विविधैरुपायैरहिंसन् तथाऽनपदन् मृषावादमब्रुवन् , एवं परस्वमगृह्णन्नित्याद्यप्यायोज्यम् । एतद्विधायी च किमपरं कुर्यादित्याह'पुढो फासे' स पञ्चमहावतव्यवस्थितः सन् यथागृहीतप्रतिज्ञानिर्वहणोद्यतः स्पृष्टः परीपहोपसर्गस्तान् तस्कृतान् शीतोष्णादिस्पर्शान् दुःखस्पर्शान् वा तत्सहिष्णुतया अनाकुलो विविधैः प्रकारैः संसारभावनादिभिः प्रेरयेत्, तत्प्रेरणं च सम्यक्सहनं, १ व्यस्य स्थाना-मु०। IA ॥२७८॥ ॐॐॐॐॐॐॐॐ : :ॐॐॐ
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy