________________
आचा
प्रदी.
CIEWALASSISTANICHERE
'आवन्ती'ति यावन्तः केवन मनुष्यलोके अनारम्भजीविनः आरम्भः-सावद्यानुष्ठानं प्रमत्तयोगो वा तद्विपर्ययेण खनारम्भस्तेन जीवितुं शीलमेपामित्यनारम्भजीविनो यतयः समस्तारम्भनिवृत्तास्तेष्वेव-गृहिषु पुत्रकलत्रस्य शरीराद्यर्थमारम्भप्रवृत्तेध्वनारम्भजीविनो भवन्ति, एतदुक्तं भवति-सावद्यानुष्ठानारम्भप्रवृत्तेषु गृहस्थेपु देहसाधनार्थमनवद्यारम्भजीविनः साधवः पङ्काधारपङ्कजवन्निर्लेपा एव भवन्ति ।
यद्य ततः किमित्याह-'एत्थोवरए'त्ति अनाऽस्मिन्-सावद्यारम्भे कर्तव्ये उपरत:-सङकुचितगात्रः अत्र चाऽऽईते'धर्मे व्यवस्थित उपरतः पापारम्भात्, किं कुर्यात् ? 'तं झोसमाणे' तत्सावद्यानुष्ठानायातं कर्म झोषयन्-क्षपयन् मुनिभावं भजते । किमभिसन्धायात्रोपरतः स्यादित्याह-'अयं संधी ति' अयमिति प्रत्यक्षगोचरापनः आर्यक्षेत्रसुकुलोत्पत्तिश्रद्धासंवेगलक्षणः सन्धिः-अवसरो मिथ्यात्वक्षयानुदयलक्षणो वा सम्यक्त्वावाप्तिहेतुभूतकर्म विवरलक्षणः सन्धिः स्वात्मन्यवस्थितमद्राक्षीद्भवानत: क्षणमप्येकं न प्रमादयेत् विषयादिप्रमादवशगो न भूयात् । कश्च न प्रमत्तः स्यादित्याह-'जे इमस्स' य इत्युपलब्धतत्वः अस्यअध्यक्षस्य विशेषेण गृह्य ते अनेनाष्टप्रकारं कर्म तद्वेतरशरीरविशिष्टं बाह्येन्द्रियेण गृह्यत इति विग्रहः-औदारिकं शरीरं तस्य अयं-वार्तमानिकक्षणः एवम्भूतः सुखदुःखान्यतररूपो गतः एवम्भूतश्च भावीत्येवं यः क्षणान्वेषणशीलः सोऽन्वेषी सदाऽप्रमत्तः स्यादिति ।
स्वमनीषिकापरिहारार्थमाह-'एस मग्गे' एषोऽनन्तरोक्तो मागों-मोक्षपथः आय:-तीर्थकरगणधरैः प्रकर्षेण वेदित१ वाऽऽहते-बृ० ।
मा०२४
॥२७७॥