________________
आचा० प्रदी०
१५२
के पुनस्ते इत्याह-'जे अणुवरया' ये केवन अनिर्दिष्टस्वरूपाः अनुपरताः-पापानुष्ठानेभ्योऽनिवृत्ता ज्ञानदर्शनचारित्राणि मोक्षमार्ग इत्येषा विद्या अतो विपर्ययेणाविद्या तया परिः-समन्तान्मोक्षमाहुः ते धर्म नाभिजानन्त इति सम्बन्धः, धर्ममजानानाश्च किमाप्नुयुरित्याह-'आवट्ट' भावावतः संसारस्तमरघट्टघटीयन्त्रन्यायेनानुपरिवर्तन्ते, तास्वेव नरकादिगतिषु भूयो भूयो भवन्तीति यावत् । इतिरधिकारसमाप्तौ, ब्रवीमीति पूर्ववत ॥१४६॥
॥ श्रीलोकसाराध्ययने प्रथमोद्देशकप्रदीपिका समाप्ता॥
KISASARAAAAAA
| ॥२७५॥