SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ११५२ आचा प्रदी० FASACRORIA क्रोधः, तथा वन्धमानो मानमुद्बहते इति बहुमानः, तथा कुरुकुचादिभिः कल्कतपसा च बहुमायी, सर्वमेतदाहारादिलोभास्करोतीत्यतो बहुलोभः, यत एवमतो बहुरजाः-बहुपापो बहुषु वाऽऽरम्भादिषु रतो बहुरतः, 'बहुणडे' नटवत् भोगार्थ बहून् वेषान् विधत्ते इति बहुनटः, तथा बहुभिः प्रकारैः शठो बहुशठः, तथा बहवः सङ्कल्पाः, कर्तव्याध्यवसाया यस्य स बहुसङ्कल्पः, इत्येवमन्येषामपि चौरादीनामेकचर्या वाच्या, स एवम्भूतः किमवस्थ: स्यादित्यत आह-'आसवसक्की' आश्रवाः-हिंसादयस्तेषु सक्तं-सङ्ग आश्रवसक्तं तद्विद्यते यस्यासावाश्रवसक्ती-हिंसाधनुषङ्गवान्, 'पलिओछण्णे' पलितं-कर्म तेनावच्छन्नः स चैवम्भूतोऽपि किं ब्रूयादित्याह-'उट्टितवाद' धर्मचरणायोयुक्तः उत्थितस्तद्वादस्तं प्रवदन् , तीथिकोऽप्येव- - माह-यथाऽहमपि प्रवजितो धर्मचरणायोद्यत इत्येवं प्रवदन् कर्मणाऽवच्छाद्यते। स चोत्थितवादी आश्रवेषु प्रवर्त्तमानः आजीविकाभयात् कथं प्रवर्तत इत्याह-'मा मे केइ अदक्खु' मा मां केचन-अन्येऽद्राक्षुरवद्यकारिणमित्यतः प्रच्छन्नमकार्य विदधाति, 'अण्णाण पमायदोसेणं' तच्चाज्ञानदोषेण प्रमाददोषेण वा विधत्ते । किञ्च-'सययं मूढे' सततं-अनवरतं मूढो मोहनीयोदयादज्ञानाद्वाधर्म-श्रुतचारित्राख्यं नाभिजानाति, न विवेचयतीत्यर्थः। यद्येवं ततः किमित्याह-'अट्टा' आर्ता विषयकषायैः प्रजायन्त इति प्रजा:-जन्तवः हे मानव !' मनुजस्यैवोपदेशाईत्वान्मानवग्रहणं, कर्मणि-अष्टप्रकारे कोविदाः, न धर्मानुष्ठाने । १ हे मानवा : ! -पा०। ॥२७४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy