SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आचा प्रदी. | १५१ SROREHISHASTROPERHHAASHARE स्पर्शान् पौनःपुन्येन-आवृत्त्या तानेव तेष्वेव स्थानेषु प्राप्नुयात् । कोऽसावेवम्भूतः स्यादित्यत आह-'आवन्ती'त्ति यावन्तः केचन लोके आरम्भजीविन:-सावधानुष्ठानस्थितिकाः, ते || पौनःपुन्येन दुःखान्यनुभवेयुः । यदि' गृहस्थाश्रिताः सारम्भास्तीथिकादयस्तेऽपि तदुःखभाजिन इति दर्शयति-'एतेसु || चेत्र आरंभजीवी' एतेषु-सावद्यारम्भप्रवृत्तेषु गृहस्थेषु शरीरयापनार्थ वर्तमानस्तीथिकः पावस्थादिर्वा आरम्भजीवी-सावधानुष्ठानवृत्तिः पूर्वोक्तदुःखभाग भवति । आस्तां तावद्गृहस्थस्तीथिको वा, योऽपि संसारार्णवतट देश्यमवाप्य सम्यक्त्वरत्नं लब्ध्वापि मोक्षककारणं विरतिपरिणाम सफलतामनीत्वा कर्मोदयात् सोऽपि सावद्यानुष्ठायी स्यादित्याह-'पत्थवि बाले' अत्र-अस्मिन्नप्य हत्प्रणीतसंयमाभ्युपगमे बालो-रागद्वेषाकुलितः परितप्यमानः विषयपिपासया रमते, कैः ? पापैः कर्मभिः, विषयार्थं सावधानुष्ठाने धर्ति विधत्ते, किं कुर्वाण इत्याह-'असरणं सरण' कामाग्निना पापैर्वा कर्मभिः परिपच्यमानः सावद्यानुष्ठानमशरणमेव शरणमिति मन्यमानो भूयो भूयो नानारूपा वेदना अनुभवेदिति ।। किञ्च-'इहमेगेसिं एगचरिया भवति' इह-मनुष्यलोके एकेषां न सर्वेषां, चरणं-चर्या एकस्य चर्या एकचर्या गृहस्थपापण्डिकादेविषयकषायनिमित्तमेकाकिनो विहरणं भवति, विषयकषायनिमित्तं यस्यैकचर्या स्यात् स किम्भूतः स्यादित्याह से बहुकोहे'त्ति स विषयगृध्रुरिन्द्रियानुकुलवयेकचर्याप्रतिपन्नस्तीथिको गृहस्थो वा परैः परिभूयमानो बहुः क्रोधोऽस्येति बहु १ येऽपि-वृ०। ॥२७३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy