________________
आचा
११५१
प्रदी०
PRASHASASARSA-PEBARE
पुणो' अत्र-अस्मिन्ननन्तरोते मोहे-मोहकार्य गर्भमरणादिके पौनःपुन्येनानादिकमपर्यन्तं चतुर्गतिक' संसारकान्तारं पर्यटति ॥१४३॥ किश्च
संसयं परिजाणतो संसारे परिण्णाते भवति, संसयं अपरिजाणतो संसारे अपरिण्णाते भवति (सू. १४४)
'संसयं परिजाणतो' संशयमर्थानर्थगतं परिजानतो हेयोपादेयप्रवृत्तिः स्यादेत देव परमार्थतः संसारपरिज्ञानमिति तेन संशयं परिजानता संसारश्चतुर्गतिकस्तदुपादानं वा मिथ्यात्वाऽविरत्यादि अनर्थरूपतया परिज्ञातं भवति ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया तु परिहृतमिति, यस्तु पुनः संशयं न जानाति [स] संसारमपि न जानातीति दर्शयितुमाह-'संसयं अपरिजाणतो' संशयं-सन्देहं द्विविधमप्यपरिजानतो हेयोपादेयप्रवृत्तिर्न स्यात् , तदप्रवृत्तौ च संसारोऽनित्याशुचिरूपो व्यसनोपनिपातबहुलो निःसारो न ज्ञातो भवति ॥१४४॥
कुतः पुनरेतन्निश्चीयते ? यथा तेन संशयवेदिना संसारः परिज्ञातः ? [किमत्र निश्चेतव्यं ? संसारपरिज्ञानकार्यविरत्युपलब्धेः, तत्र सर्वविरतिप्रष्ठां विरतिं निर्दिदिक्षुराह-]
१ चातुर्गतिक० पा० ।
॥२७॥