SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ११५/१ आचा प्रदी० _ 'से पासति' सः अपगतमिथ्यात्वपटलः सम्यक्त्वप्रभावावगतसंसारासारः' पश्यति, किं तत् ? 'फुसियमिव'त्ति कुशाग्रोदकबिन्दुमिव बालस्य जीवितमिति सम्बन्धः, तत्किम्भूतमित्याह-'पणुण्णं ति पणुन्नम्-अनवरताऽपरापरोदकपरमाणूपचयात् पणुन्नं-प्रेरितं वातेनेरितं सन्निपतितं भाविनि भूतवदुपचारान्निपतदेव निपतितं, दाान्तिकं दर्शयति-'एव'मिति यथा कुशाग्रे बिन्दुः क्षणसम्भावितस्थितिका एवं बालस्यापि जीवितम्, अपगततत्वो हि स्वयमेवावगच्छति नाऽप्यसौ तदभिकाङ्क्षति अतो बालग्रहणं, बालो ह्यज्ञः, स चाज्ञानत्वादेव जीवितं बहु मन्यते, यत एव बालोऽत एव मन्दः-सदसद्विवेकापटुः, यत एव मन्दोऽत एव परमार्थ न जानाति, अतः परमार्थमजानत एवम्भूतं जीवितमित्येवं पश्यति । AAAAAAS परमार्थमजानंश्च यत्कुर्यात्तदाह-'कूराणि कम्माणी'ति क्रराणि-निर्दयानि कर्माणि-अनुष्ठानानि हिंसानृतस्तेयादीनि का सकललोकचमत्कृतिकारीणि अष्टादश वा पापस्थानानि बाल:-अज्ञः प्रकर्षेण कुर्वाणः तेन-क्रूरकर्मविपाका]पादितेन दुःखेन ४ी मूढः-किंकर्तव्यताऽऽकुलः, केन कृतेन ममैतद्दुःखमुपशमं यायादिति मोहमोहितो विपर्यासमुपैति-यदेव प्राण्युपघातादि दुःखोत्पादने कारणं तदुपशमाय तदेव विदधातीति । किश्च-'मोहेण गम्भं' मोहः-अज्ञानं मोहनीयं वा मिथ्यात्वविषयाभिः | लापमयं तेन मोहेन मोहितः सन् कर्म बध्नाति, तेन च गर्भमवाप्नोति, ततोऽपि जन्म पुनर्बालकुमारयौवनादिवयोविशेषाः, पुनर्विषयकषायादिना कर्मोपचयादायुषः क्षयात् मरणमवाप्नोति, आदिग्रहणान्नरकादियातनास्थानमेतीति । 'एत्थ मोहे पुणो १.भावादव०-मु०। ॥२६९॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy