________________
बाचा प्रदी.
|| ११५१
आवंती केआवंती लोयंसी विप्परामसंति अट्ठाए अणट्ठाए व, एतेसु चेव विप्परामसंति ।
गुरू से कामा। ततो से मारस्स अंतो । जतो से मारस्स अंतो ततो से दूरे।
नेव से अंतो व से दूरे। (सू. १४२) 'आवन्ती'त्ति यावन्तो जीवा मनुष्या असंयता वा स्युः, 'केआवंती'त्ति केचन लोके-चतुर्दशरज्ज्वात्मके गृहस्थान्यतीर्थिकळोके वा षड्जीवनिकायान् आरम्भप्रवृत्ता विविधम्-अनेकप्रकारं विषयाभिलाषितया परामशन्ति-उपतापयन्ति, दण्डकशाताडनादिभिर्घातयन्तीत्यर्थः, किमर्थ विपरामृशन्तीति दर्शयति-'अट्ठाए'त्ति अर्थाय-अर्थार्थ अर्थाद्वा अर्थः-प्रयोजनं धर्मार्थकामरूपं, अर्थ-प्रयोजनमुद्दिश्य प्राणिनो घातयन्ति, तत्र-धर्मनिमित्तं शौचाथं पृथिवीकार्य समारभन्ते, अर्थार्थ कृष्यादि करोति, कामार्थमाभरणादि, एवं शेषेष्वपि कायेषु वाच्यं, अनर्थाद्वा-प्रयोजनमनुद्दिश्यैव तच्छोलतया मृगयाद्याः प्राण्युपघातकारिणीः क्रियाः कुर्वन्ति, तदेवमर्थादनाद्वा प्राणिनो हत्वा 'एतेसु चेव'त्ति एतेस्वेव षड्जीवनिकायस्थानेषु विविधम्अनेकप्रकारं सूक्ष्मपर्याप्तकादिभेदेन तानेकेन्द्रियादीन् प्राणिनस्तदुपघातकारिणः परामशन्ति, तान् प्रपीडय तेष्वेवानेकशः' उत्पद्यन्ते। १. व नैकश:-मु०।
॥२६७॥