SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ बांचा ० प्रदी० || श्री लोकसाराख्यं पञ्चममध्ययनम् ॥ उक्तं चतुर्थमध्ययनम्, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने सम्यक्त्वं प्रतिपादितं तदन्ततं च ज्ञानं, तदुभयस्य चारित्रफलत्वात् तस्यैव च प्रधानमोक्षाङ्गतया लोकसारत्वात् तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योद्देशार्थाधिकारो लिख्यते तत्र प्रथमोद्देश प्राणिनां हिंसको विषयारम्भकः विषयार्थमेकचरश्च मुनिर्न भवतीत्यधिकारः १। द्वितीये तु हिंसादिपापस्थानेभ्यो विरतो मुनिर्भवतीत्यधिकारः २ । तृतीये तु विरतो मुनिर्निष्परिग्रहो भवतीत्यधिकारः ३ | चतुर्थे स्वव्यक्तस्य-अगीतार्थस्य सूत्रार्थापरिनिष्ठितस्य प्रत्यपाया भवन्तीत्ययमर्थाधिकारः ४ | पञ्चमे तुहृदोपमेन साधुना भाव्यं यथा हि हृदो जलभृतोऽप्रतिश्रवः प्रशस्यो भवति, एवं साधुरपि ज्ञानादिभृतो विश्रोत सिकार हितो भवतीत्यर्थाधिकारः ५ । षष्ठे तून्मार्गवर्जना - कुदृष्टिपरित्यागः राग-द्वेषत्यागश्चेत्यर्थाधिकारः ६ । नामनिष्पन्ने निक्षेपे लोकसार इत्यध्ययनस्य नाम, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारयितव्यं तच्चेदम्— १२५/१ ॥२६६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy