SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ १।५।१ आचा० प्रदी० SHEHARASHISIXE ECH 'जे खलु भो वीर'त्ति खलुशब्दो वाक्यालङ्कारे, ये केचनातीतानागतवर्तमानाः भो इत्यामन्त्रणे वीराः-कर्मविदारणसहिष्णवः समिताः-समितिभिः सहिता-ज्ञानादिभिः सदा यताः सत्संयमेन 'संथडदंसिणो'त्ति निरन्तरदर्शिनः शुभाशुभस्य' आत्मोपरताः पापकर्मभ्यो 'अहा तहा' यथा तथाऽवस्थितं लोकं चतुर्दशरज्ज्वात्मकं कर्मलोकं वोपेक्षमाणाः-पश्यन्तः सर्वासु प्राच्यादिषु दिक्षु व्यवस्थिता इत्येवं प्रकाराः सत्यं ऋतं तपः संयमो वा तत्र परिचितस्थिरे तस्थुः, तत्रातीते कालेऽनन्ता अपि सत्ये तस्थुः वर्तमाने पञ्चदशसु कर्मभूमिषु सङ्ख्येयास्तिष्ठन्ति अनागते अनन्ता अपि स्थास्यन्ति । तेषां चातीतानागतवर्तमानानां सत्यवतां यज्ज्ञानं योऽभिप्रायस्तदहं कथयिष्यामि भवतां श्रृणुत यूयं, किम्भूतानां तेषां ? वीराणामित्यादीनि विशेषणानि गतार्थानि, किम्भूतं ज्ञानमितिचेदाह-'किमस्थिति किं-प्रश्ने अस्ति-विद्यते ? कोऽसौ ? उपाधिः-कर्मजनितं विशेषणं, तद्यथा-नारकस्तैर्यग्योनः सुखीदुःखी सुभगो दुर्भगः पर्याप्तकोऽपर्याप्तक इत्यादिः, आहोस्विन्न विद्यत इति परमतमाशय त ऊचुः पश्यकस्य-सम्यग्वादादिकमर्थं पूर्वोपात्तं पश्यतीति पश्यः स एव पश्यकस्तस्य कर्मजनितोपाधिर्न विद्यते, इत्येतदनुसारेणाहमपि बवीमि न स्वमनीषिकया । गतः सूत्रानुगमः तद्गतौ च समाप्तश्चतुर्थोद्देशको नयविचारातिदेशात् समाप्तं सम्यक्त्वाध्ययनं चतुर्थमिति ॥ १४१॥ ॥ इति श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रमूरिपट्टालङ्कारश्रीजिनहंससूरिविरचितायां श्रीआचाराङ्गप्रदीपिकायां श्रीसम्यक्त्वाध्ययनं समाप्तम् ।। १ नःशुभस्य-पा० । SHESERECIRRESE मा०२३ ॥२६५॥ AR
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy