________________
भाचा०
प्रदी०
निष्क्रान्तः कर्मणो निष्कर्मा - मोक्षः संवरो वा तं द्रष्टुं शीलमस्येति निष्कर्मदर्शी, इहेति संसारे मर्त्येषु मध्ये य एव निष्कर्म - दर्शी स एव बाहयाभ्यन्तरश्रोतश्छेत्ता स्यात् ।
किमभिसन्ध्य' स बाह्याभ्यन्तरसंयोगस्य छेत्ता निष्कर्मदर्शी भवेदित्यत आह- 'कम्मुणा सफलं 'ति मिथ्यात्वाविरतिप्रमादकपाययोगैः क्रियन्ते बध्यन्त इति कर्माणि ज्ञानावरणीयादीनि तेषां सफलत्वं द्रष्ट्वा ततस्तस्मात् कर्मणस्तदुपादानादाश्राद्वा निश्चयेन याति निर्गच्छति, तन्न विधत्ते, कोऽसौ ? वेदविद्-वेद्यते सकलं चराचरमनेनेति वेदः - आगमस्तं वेत्तीति वेदवित्- सर्वज्ञोपदेशवर्तीत्यर्थः ॥ १४० ॥
न केवलस्य ममैवायमभिप्रायः, किन्तु सर्वेषामेव तीर्थकराणामयमाशय इति दर्शयितुमाह
जे खलु भो वीरा ते समिया सहिता सदा जता संथडदंसिणो आतोवरता अहा तहा लोगं उवेहमाणा पाइणं पडीणं दाहिणं उदीणं इति सच्चसि परिविचिट्ठि |
साहिस्सामा णाणं वीराणं समिताणं सदा जताणं संथडदंसीणं आतोवरताणं अहा तहा लोकमुवेहमाणां - किमत्थि उवधी पासगस्स, ण विज्जति ? णत्थि त्ति बेमि (सू. १४१)
॥ चउत्थमज्झयणं सम्मतं ॥
१ किमभिसन्धिः य० । २०यः सर्वे० ० ।
१|४|४
॥२६४॥