SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ आचा प्रदी० श४।४ 'जस्स णस्थि'त्ति यस्य कस्यचिदविशेषितस्य कर्मादानश्रोतोगृद्धस्य बालस्याव्यवच्छिन्नबन्धनस्यानभिक्रान्तसंयोगस्याज्ञानतमसि वर्तमानस्य पुरा-पूर्वजन्मनि बोधिलाभो नास्ति-सम्यक्त्वं नासीत् पश्चादपि-एष्येऽपि जन्मनि न भावि मध्येमध्यजन्मनि तस्य कुतः स्यात् ? एतदुक्तं भवति-यस्यैव पूर्व बोधिलाभः संवृत्तो भविष्यति वा तस्यैव वर्तमानकाले भवति, येन हि सम्यक्त्वमासादितं' पुनर्मिथ्यात्वोदयात् तत्प्रच्यवते तस्यापार्धपुदलपरावर्तेनापि कालेनावश्यं तत्सद्भावात् । किश्च 'से हु' हुः-यस्मादर्थे, प्रकृष्टं ज्ञानं जीवाजीवादिपरिच्छेत तद्विद्यते यस्यासौ प्रज्ञावान् , यस्मात् प्रज्ञावानत एव बुद्धोऽवगततत्वः यत एवम्भूतोऽत एवाह-'आरंभोवरए' सायद्यानुष्ठानमारम्भस्तस्मादुपरत आरम्भोपरतः। एतच्चारम्भोपरमणं शोभनमिति दर्शयन्नाह–'सम्ममेतंति यदिदं सावद्यारम्भोपरमणं सम्यगेतच्छोभनमेतत् सम्यक्त्वकार्यत्वाद्वा सम्यक्त्वमेतदित्येवं पश्यत-एवं गृणीत यूयमिति ।। किमित्यारम्भोपरमणं सम्यगिति चेदाह-'जेण बंध'ति येन कारणेन सावद्यारम्भप्रवृत्तो बन्धं निगडादिभिः वधं कशादिभिः घोरं-प्राणसंशयरूपं परिताप-शारीरं मानसं दारुणं-असहयमवाप्नोत्यत आरम्भोपरमणं सम्यग्भूतं कुर्यात् । किं कृत्वेत्याह--'पलिछिदिय'त्ति परिच्छिद्य-अपनीय, किं तत् ? स्रोतः-पापोपादानं, तच्च बाहथं-धनधान्यहिरण्यपुत्रकलत्रादिरूपं हिंसाद्याबद्यारात्मकं, च शब्दादान्तरं च रागद्वेषात्मक विषयपिपासारूपं वेति, किञ्च--'णिकम्मदंसी' १- ०मास्वादितम् बृ० । २०रमान-वृ० । Iॐॐॐॐॐ | ॥२६३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy