________________
आचा० प्रदी.
१।४।४
यश्चैवम्भूतः स कं गुणमवाप्नुयादित्याह-एष मांसशोणितयोरपनेता पुरि शयनात् पुरुषः वः-संयमः स विद्यते यस्थासौ द्रविकः, कर्मरिपुविदारणसहिष्णुत्वाद्वीरः। किश्च-'आयाणिज्जे' स वीराणां मार्ग प्रतिपन्नः मांसशोणितयोरपनेता मुमुक्षूणामादानीयो-ग्राहय आदेयवचनश्च व्याख्यातः। कश्चैवम्भूत इत्याह-'जे धुणाति समुस्सय'ति ब्रह्मचर्ये-संयमे मदनपरित्यागे वोषित्वा यः समुच्छ्रयं-शरीरं कर्मोपचयं वा तपश्चरणादिना घुनाति-कृशीकरोति स आदानीयो | व्याख्यातः ॥१३८॥ उक्ता अप्रमत्ता, अथ तद्विधर्मिणः प्रमत्तानभिधित्सुराह
णेत्तेहिं पलिछिण्णेहिं आताणसोतगढिते बाले अव्वोच्छिण्णवंधणे अणभिक्कंतसंजोए । तमंसि अविजाणओ आणाए लंभो णत्थि ति बेमि (सू० १३९) 'णेत्तेहिति नयन्त्यर्थदेश-अर्थक्रियासमर्थमर्थमाविर्भावयन्तीति नेत्राणि-चक्षुरादीनीन्द्रियाणि तैः परिच्छिन्नैः-यथास्वं विषयग्रहणं प्रति निरुद्धैः सद्भिरादानीयोऽपि भूत्वोषित्वा ब्रह्मचर्ये पुनर्मोहोदयादादानस्रोतोगृद्धः-आदीयते सावद्यानुष्ठानेन स्वीक्रियत इत्यादानं-कर्म संसारबीजभूतं तस्य श्रोतांसि-इन्द्रियविषया मिथ्यात्वाविरतिप्रमादकषाययोगा वा तेषु गृद्धोऽध्युपपन्नः स्यात् , कोऽसौ ? बाल:-अज्ञः रागद्वेपमोहाभिभूतान्तःकरणः। यश्चादानश्रोतोगृद्धः स किम्भूतः स्यादित्याह'अव्वोच्छिण्णबंधणे' अव्यवच्छिन्नं जन्मशतानुवृत्ति बन्धनम्-अष्टप्रकारं कर्म यस्य स तथा, किश्च-'अणभिक्कंतसंजोए'
॥२६॥