SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ११४।३ चा० दी० NERA TE ध्यात्, 'दुक्खं च जाण'त्ति क्रोधादिना दन्दह्यमानस्य यन्मानसं दुःखमुत्पद्यते तज्जानीहि, तज्जनितकर्मविपाकापादितं चागामि' दुखं सम्प्रेक्ष्य-क्रोधादिकं प्रत्याख्यानपरिज्ञया जानीहि-परित्यजेदित्यर्थः, आगामिदुःखस्वरूपमाह-'पुढो फासाई च'त्ति पृथक् सप्तमना कपृथ्वीसम्भवशीतोष्ण वेदनाकुम्भीपाकादियातनास्थानेषु स्पर्शान् दुःखानि, चः समुच्चये, न केवलं क्रोधाध्मातस्तस्मिन्नेव [क्षणे] दुःखमनुभवतीत्यागामीनि च पृथग दुःखानि च स्पृशेत्-अनुभवेत्, तेन चातिदुःखेनापरोऽपि लोको दुःखित इत्येतदाह -'लोगं च पास' न केवलं क्रोधादि विपाकादात्मा दुःखान्यनुभवति, लोकं च शारीरमानसदुःखापन्न' विस्पन्दमानमस्वतन्त्रमितश्चेतश्च दुःखप्रतीकाराय धावन्तं पश्य-विवेकचक्षुषाऽवलोकय । थे त्वेवं न ते किम्भूता भवन्तीत्याह-'जे णिचुडा' ये तीर्थकरोपदेशवासितान्त:करणा विषयकषायाग्न्युपशमाभिवृत्ताः' शीतीभूताः पापेसु कर्मसु अनिदाना:-निदानरहितास्ते परमसुखास्पदतया व्याख्याताः औपशमिक सुखभाक्त्वेन प्रसिद्धा इत्यर्थः, यत एवं ततः किमित्याह-'तम्हाऽतिविज्जो'त्ति यस्माद् रागद्वेषाभिभूतो दुःखभाग्भवति तस्मादतिविद्वान्-विदितागमसद्भावः सन्न प्रतिसज्यले:-क्रोधाग्निनाऽऽत्मानं नोद्दीपयेः, कषायोपशमं कुर्वित्यर्थः। इतिः-अधिकारसमाप्तौ, बबीमीति पूर्ववत् ॥ १३७ ॥ ॥श्रीसम्यक्त्वाध्ययनस्य तृतीयोदेशकप्रदीपिका समाप्ता ।। मकर १ वागामि० पा० । २ ० दुःखोपपन्न-पा० । ३ ० यास्तूप०-मु०। ॥२५८॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy